द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम्।
समवायस्तथाभावः पदार्थाः सप्त कीर्तिताः ॥ २ ॥
अत्र सप्तमस्याभावत्वकथनादेव षण्णां भावत्वं प्राप्तम्, तेन भावत्वेन पृथगुपन्यासो न कृतः। एते च पदार्था वैशेषिकनये प्रसिद्धाः, नैयायिकानामप्यविरुद्धाः। प्रतिपादितं चैवमेव भाष्ये।
अत एवोपमानचिन्तामणौ सप्तपदार्थभिन्नतया शक्तिसादृश्यादीनामप्यतिरिक्तपदार्थत्वमाशङ्कितम्। ननु कथमेत एव पदार्थाः शक्तिसादृश्यादीनामप्यतिरिक्तपदार्थत्वात्, तथाहि - मण्यादिसमवहितेन वह्निना दाहो न जन्यते, तच्छून्येन तु जन्यते. तत्र मण्यादिना वह्नौ दाहानुकूला शक्तिर्नाश्यते, उत्तेजकेन मण्याद्यपसारणेन च जन्यत इति कल्प्यते। एवं सादृश्यमप्यतिरिक्तः पदार्थः, तद्धि न षट्सु भावेष्वन्तर्भवति, सामान्येऽपि सत्त्वात्, यया गोत्वं नित्यं तथाश्वत्वमपीति सादृश्यप्रतीतेः। नाप्यभावे। सत्त्वेन प्रतीयमानत्वादिति चेत्,
न, मण्याद्यभावविशिष्टवह्न्यादेर्दाहादिकं प्रति स्वातन्त्र्येण मण्यभावादेरेव वा हेतुत्वं कल्प्यते। अनेनैव सामञ्जस्येऽनन्तशक्तितत्प्रागभावध्वंसकल्पनानौचित्यात्। न चोत्तेजके सति प्रतिबन्धकसद्भावेऽपि कथं दाह इति वाच्यम्। उत्तेजकाभावविशिष्टमण्यभावस्य हेतुत्वात्। सादृश्यमपि न पदार्थान्तरम्, किन्तु तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्। यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्त्वं मुखे चन्द्रसादृश्यमिति।
क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो मनः।
द्रव्याणि …
द्रव्याणि विभजते क्षित्येति। क्षिति पृथिवी, आपो जलानि, तेजो वह्निः, मरुद् वायुः, व्योम आकाशः, कालः समयः, दिग् आशा, देही आत्मा, मन एतानि नव द्रव्याणीत्यर्थः।
ननु द्रव्यत्वजातौ किं मानम्, न हि तत्र प्रत्यक्षं प्रमाणम्, घृतजतुप्रभृतिषु द्रव्यत्वाग्रहादिति चेत्, न। कार्यसमवायिकारणतावच्छेदकता, संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया तत्सिद्धेरिति।
ननु दशमं द्रव्यं तमः कुतो नोक्तम्, तद्धि प्रत्यक्षेण गृह्यते तस्य च रूपवत्त्वात् कर्मवत्त्वाच्च द्रव्यत्वम्। तद्धि गन्धशून्यत्वान्न पृथिवी, नीलरूपत्वाच्च न जलादिकम्। तत्प्रत्यक्षे चालोकनिरपेक्षं चक्षुः कारणमिति चेत्, न। आवश्यकतेजोऽभावेनैवोपपत्तौ द्रव्यान्तरकल्पनाया अन्याय्यत्वात्। रूपवत्ताप्रतीतिस्तु भ्रमरूपा, कर्मवता प्रतीतिरप्यालोकापसरणौपाधिको भ्रान्तिरेव। तमसोऽतिरिक्तद्रव्यत्वेऽनन्तावयवादिकल्पनागौरव च स्यात् सुवर्णस्य यथा तेजस्यन्तर्भावस्तथाऽग्रे वक्ष्यते।