नूतनजलधररुचये गोपवधूटीदुकूलचौराय।
तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥ १ ॥
न्यायसिद्धान्तमुक्तावली -
चूडामणीकृतविधुर्वलयीकृतवासुकिः।
भवो भवतु भव्याय लीलाताण्डवपण्डितः ॥१ ॥
लक्ष्मीपादयुगं प्रणम्य पितरं श्रीबालकृष्णाभिधम्,
भारद्वाजकुलाम्बुधौ विधुमिव श्रीगौरवास्याम्बुजात्।
ज्ञात्वाशेषमतं मितेन वचसा सिद्धान्तमुक्तावली-
गूढार्थांस्तनुते यथामति महादेवः परेषां कृते ॥ १ ॥
तत्र तावद्भाष्यापरिच्छेदव्याख्यानं चिकीर्षुः विश्वनाथपञ्चाननो निर्विघ्नपरिसमाप्तये कृतस्येश्वरनिर्देशरूपमङ्गलस्य शिष्या अप्येवं कुर्युरिति शिष्यशिक्षायै निबन्धं कुर्वन्नीश्वरं प्रार्थयते।
चूडामणीकृतेति। लीलेति।
इदं च विशेष्यं नातः समाप्तपुनरात्तत्वतः। वस्तुतस्तु विधोः किमिति चूडामणीकरणं किमर्थं वा वासुकेर्बलकरणमित्याकाङ्क्षया निराकाङ्क्षप्रतिप्रत्तिर्न सम्भवतीति लीलेत्यादिविशेषणानुक्तौ विवक्षितान्वयबोधाभावान्नायमत्र दोषः। उत्थाप्याकाङ्क्षया विशेषणान्वय एव तत्प्रसरादिति। लीलया ताण्डवं नृत्यं तत्र पण्डितोऽभिज्ञ इत्यर्थः। अनेन च नृत्यविशिष्टतया स्मृतिविषयत्वात्प्रार्थिता अर्था भवन्त्येवेति सूचितम्। ननु आभूषणरहितस्य कथं नृत्यं तत्राह चूडामणीकृतेति। अचूडामणिः चूडामणिवत्सम्पद्यमान इति चूडामणीकृतः चूडामणीकृतो विधुर्येन स तथेत्यर्थः। वलयीकृतेति। अवलयं वलयं सम्पद्यते इति वलयीकृतः वलयीकृतो वासुकिर्येन स तथेत्यर्थः ॥ १ ॥
न्यायसिद्धान्तमुक्तावली -
निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरन्तनोक्तिभिः।
विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः ॥ २ ॥
शिष्यावधानाय प्रतिजानीते निजनिर्मितेति। निजेन स्वेन निर्मिता रचिता या कारिकावली ताम् अति अत्यन्तं संक्षेपः शब्दसंक्षेपो यासु ताः अतिसंक्षिप्तास्तादृश्यश्च ताश्चिरन्तनानां कणादप्रभृतीनां या उक्तयो वचांसि वचःप्रतिपाद्या युक्तयस्ताभिरहं विशदीकरवाणि प्रकटीकरोमीत्यर्थः।
ननु लीलावत्यादिप्राचीननिबन्धाध्ययनेनैव कारिकावलीप्रतिपादितोऽर्थो बोद्धव्य इति किमनेन भवत्कृतविशदनिबन्धेनेत्यत आह अतिसंक्षिप्तेति। तथा च लीलावत्यादिप्राचीननिबन्धेषु ग्रन्थबाहुल्येन बहुतरदुःखहेतुप्रतिपत्तिकतया न बालानां प्रवृत्तिरिति भावः। स्वोत्प्रेक्षामूलकताप्रयुक्तानादरणीयतां निरसितुं चिरन्तनेत्युक्तम्। नन्वित्यवधारणे। तथा च कौतुकादेवेत्यर्थः। एतेन स्वस्य ग्रन्थकरणे क्लेशाभावः सूचितः। स्वस्य ग्रन्थकरणे प्रवृत्तौ निमित्तमाह राजीवेति। राजीवे शिष्ये या दया कृपा तया वशंवदस्तदधीन इत्यर्थः ॥ २ ॥
न्यायसिद्धान्तमुक्तावली -
सद्रव्या गुणगुम्फिता सुकृतिनां सत्कर्मणा ज्ञापिता।
सत्सामान्यविशेषनित्यमिलिताभावप्रकर्षोज्ज्वला।
विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली
विन्यस्ता मनसो मुदं वितनुता सद्युक्तिरेषा चिरम् ॥ ३ ॥
ननु ग्रन्थादौ श्रोतृप्रवृत्तये प्रयोजनादि वक्तव्यं भवति, तस्य चेहानुक्तत्वादुपेक्षणीयतैतद्ग्रन्थस्य स्यादित्याशङ्क्य विषयप्रयोजनसम्बन्धाधिकारिणः सूचयन्नतिसंक्षिप्तत्वादेतद्ग्रन्थस्य सकलपदार्थाप्रतिपादकतया कथं बालव्युत्पत्तिरित्याशङ्कां चैतद्ग्रन्थस्य सकलपदार्थप्रतिपादकत्वप्रदर्शनेन परिहरन्, “यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्” इति भगवदुक्तेर्मुक्तावलीसमं स्वकीयग्रन्थं भगवति चार्पयन् स्वकीर्त्यनुवृत्तये ग्रन्थस्य स्वस्य च नाम निबध्नाति सद्रव्येति।
द्रव्यैः सहिता युक्ता प्रतिपादकतया गुणैरपि गुम्फिता युक्ता सतामुत्क्षेपणादीनां पञ्चानां कर्मणां ज्ञापिका बोधिका सत् जातिरूपं सामान्यं विशेषाः नित्यः समवायस्तैर्मिलिता, यद्वा सन्ति सामान्यविशेषनित्यमिलितानि यस्यां सा नित्यमिलिता नित्यसम्बन्धः अभावप्रकर्षः प्रागभावादिभेदेन वैलक्षम्यं तस्य उज्ज्वला प्रकाशिका एषा बुद्धिस्था सिद्धान्ता एव मुक्तास्तासामावली पङ्क्तिः विष्णोर्नारायणस्य वक्षस्थले विन्यस्ता विशेषतोर्पिता सुकृतिनां पण्डितानां मनसः मुदं सन्तोषं चिरं विदुषां सन्तोषस्तत्राह सद्युक्तिरिति। सत्यः युक्तयो यस्यां सा तथा। मुक्ताबलीसादृश्यं ग्रन्थे द्रव्यादिपदार्थवत्तया, यथाहि मुक्तावली सद्रव्या साध्यतया द्रव्यवती द्रव्यसाध्येति यावत्।
नानाविधद्रव्यघटिता वा गुणेन सूत्रेण गुम्फिता निर्मिता सुकृतिनां पुण्यवतां यानि सन्ति समीचीनानि भगवद्भजनादिरूपाणि कर्माणि तेषां बोधिका सत्सामान्यं समीचीना जातिः विशेषो महत्त्वनिर्मलत्वादिस्ताभ्यां नित्यमनवरतं मिलित्वा सम्बद्धा अभावे तेजोभावेन्धकारे सति प्रकर्षेणोज्ज्वला अर्थप्रकाशिकेति यावत्। यथा मुक्तावली द्रव्यादिसकलपदार्थवती तथायं ग्रन्थोऽपीति। अत्र च मुक्तावलीत्वोक्त्या निर्दोषत्वं सूचितम्। अत्र द्रव्यादिपदार्थप्रतिपादकत्वप्रदर्शनेन द्रव्यादयो विषया उक्ताः। पदार्थतत्त्वावधारणं च प्रयोजनं सूचितम्। सम्बन्धश्च प्रतिपाद्यप्रतिपादकभावः। पदार्थतत्त्वावधारणकामोऽधिकारीति ॥ ३ ॥
न्यायसिद्धान्तमुक्तावली -
विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षायै निबध्नाति नूतनेति।
ननु मङ्गलं न विघ्नध्वंसं प्रति न वा समाप्तिं प्रति कारणं विनाऽपि मङ्गलं नास्तिकादीनां ग्रन्थे निर्विघ्नपरिसमाप्तिदर्शनादिति चेत्, न। अविगीतशिष्टाचारविषयत्वेन मङ्गलस्य सफलत्वे सिद्धे तत्र च फलजिज्ञासायाः, सम्भवति दृष्टफलकत्वेऽदृष्टफलकल्पनया अन्याय्यत्वाद् उपस्थितत्वाच्च समाप्तिरेव फलं कल्प्यते। इत्थं च यत्र मङ्गलं न दृश्यते तत्रापि जन्मान्तरीय तत्कल्प्यते। यत्र च सत्यपि मङ्गले प्रचुरस्यास्यैव बलवत्तरविघ्ननिराकरणकारणत्वम्। विघ्नध्वंसस्तु मङ्गलद्वारमित्याहु प्राञ्चः।
ग्रन्थारम्भसमये कृतस्य मङ्गलस्य तन्निबन्धस्य च वैयर्थ्यमाशङ्क्य फलं दर्शयति विघ्नविघातायेति। प्रारब्धुमिष्टस्य ग्रन्थस्येति शेषः। यद्यप्यत्र घातपदस्योत्पत्तिमदभावपरतया विपदमनर्थकमिति प्रतिभाति तथापि विशिष्टवाचकानां पदानां सति पृथग्विशेषणवाचकपदसमवधाने विशेष्यमात्रपरतायाः ‘स कीचकैर्मारुतपूर्णरन्ध्रैः’ इत्यत्र, ‘कीचका वेणवस्ते स्यूर्ये स्वनन्त्यनिलोद्धता’ इति कोशान्मारुतपूर्णरन्ध्रत्वविशिष्टवेणुबोधककीचकपदे द्रष्टत्वाद्धातपदमभावमात्रपरं द्रष्टव्यम्।
ननु निष्फलत्वान्मङ्गलाचरणमयुक्तम्, न च निष्फलत्वमेवासिद्धं तस्य फलविशेषशून्यत्वेन हेतुना साधनादित्यभिप्रायेणाशङ्कते नन्विति। मङ्गलस्य कारणत्वाभावे व्यतिरेकव्यभिचाररूपहेतुमाह विनापीति। निर्विघ्नपरिसमाप्तीति। विघ्नध्वंसपूर्वकसमाप्तीत्यर्थः। न च तत्र जन्मान्तरीयमङ्गलकल्पनान्न व्यभिचार इति वाच्यम्, भोगादिनापि नास्तिकात्मनि विघ्ननाशसम्भवेन जन्मान्तरीयमङ्गलसन्देहेन व्यभिचारसंशयसम्भवात् अत्र कादम्बर्यादिग्रन्थे मङ्गलसत्त्वेऽपि समाप्तेरदर्शनेनान्वयव्यभिचारोऽपि दोषो बोध्यः व्यभिचारसन्देहस्य ग्राह्यसंशयरूपतया कारणताप्रत्यक्ष एव प्रतिबन्धकत्वं नत्वनुमितौ तत्र तस्यानुकूलत्वादित्यभिप्रायवान् मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वादिति परिशेषानुमानेन मङ्गलस्य समाप्तिफलकतां व्यवस्थापयिष्यन् प्रथमतो विशेष्यासिद्धिनिरासाय फलवत्तां साधयति - अविगीतेति। विषयत्वं च ज्ञानविषयसुखेऽतिप्रसक्तमतः - आचारेति। आचारश्चात्र यद्यपि क्रियैव तथापि विषयत्वश्रुतेः कृतिरेव विवक्षिता तद्विषयत्वं च विधेयतया बोध्यं तेन फले न व्यभिचारस्तस्योद्देश्यतया कृतिविषयत्वात्। विधेयतया कृतिविषयत्वं चैत्यवन्दनादावप्यस्त्यतः शिष्टेति। शिष्टत्वं च फलसाधनतांशे भ्रान्तिरहितत्वं न तु वेदप्रामाण्याभ्युपगन्तृत्वं, तेन व्युत्क्रमेण कृते दर्शादौ निष्फलत्वेऽपि न व्यभिचारः। शिष्टाचारविषयत्वं श्येनयागादावप्यस्त्यतोऽविगीतेति। अविगीतत्वं च बलवदनिष्टाननुबन्धित्वं, तेन श्येनादौ प्रवृत्त्युपयुक्तबलवदनिष्टाननुबन्धीष्टसाधनत्वरूपसाध्याभावेऽपि न व्यभिचारः। सिद्धे अनुमिते। तत्र मङ्गले। फलजिज्ञासायां विशेषतः फलजिज्ञासायाम्।
ननु कथं तर्हि गङ्गास्नानादीनामदृष्टार्थकतेत्यत आह - सम्भवतीति। तथा च तत्र दृष्टासम्भवेनादृष्टकल्पनेति भावः। ननु तर्हि विश्वजिन्न्यायात्स्वर्ग एवेष्टं कल्प्यतामत आह - उपस्थितत्वादिति। आरब्धं कर्म मे निर्विघ्नं परिसमाप्यतामिति ग्रन्थादौ प्रवृत्तपुरुषकामनाविषय़त्वेन परिशेषानुमाने प्रवर्तमानस्योपस्थितत्वादित्यर्थः। कल्प्यते अनुमीयते। अनेन च मङ्गलस्य समाप्तिहेतुत्वेऽनुमानमेव प्रमाणं न तु शिष्टाचारानुमिता श्रुतिरिदानीमानुपूर्वीविशेषनिर्णयाभावेन तस्या अबोधकत्वादिति सूचितं व्यापकत्वघटितकारणताग्रहप्रतिबन्धकज्ञानविषयव्यतिरेकव्यभिचारमुद्धरति - इत्थञ्चेति। मङ्गलस्य समाप्तिफलकत्वे चेत्यर्थः। तत्रापि नास्तिकादिग्रन्तेऽपि। तन्मङ्गलं कल्प्यते, अनुमीयते, कार्यरूपसमाप्त्येति शेषः। ग्राह्यसन्देहपर्यवसन्नस्य कारणतानुमितावप्रतिबन्धकत्वात् व्यभिचारनिर्णयस्य चाभावादिति भावः।
नन्वेवमप्यन्वयव्यभिचारज्ञानं कारणताग्रहविरोधि भविष्यत्येवेत्याशङ्क्यान्वयव्यभिचारं निरस्यति - यत्र चेति। यत्र कादम्बर्यादौ। बलवत्तरत्वं वैजात्यम्। नन्वेवमपि कादम्बर्यादौ कुतो न विघ्नध्वंस इत्यत आह - प्रचुरस्येति। प्रचुरस्यैव मङ्गलस्येत्यर्थः। बलवत्तरविघ्ननिवारणे बलवत्तरादिविघ्ननिवारणे। तेन प्रचुरविघ्नस्यापि संग्रहः। तथा च मङ्गलस्य विघ्नसमसंख्याकमङ्गलत्वेन नाशकतया न तत्र विघ्ननाश इति भावः। अत्र च विघ्नसमसंख्याकमङ्गलत्वेन हेतुत्वेऽधिकसंख्याकमङ्गलात् न्यूनसंख्याकविघ्ननाशो न स्यादतः प्राचुर्यं वेत्यत्र वाकारोऽनास्थायां बोध्यः।
ननु तथापि कादम्बर्यादौ विघ्नध्वंसो मा जायतां समाप्तिः परं जायतां मङ्गलरूपहेतोः सत्वादित्याशङ्क्याह विघ्नध्वंसस्त्विति। तथा च स्वजन्यविघ्नध्वंसवत्त्वसम्बन्धेन मङ्गलाभावान्न समाप्तिरिति भावः। आहुरित्यस्वरसोद्भावनम्। तद्बीजं तु विघ्नध्वंसद्वारा मङ्गलस्य हेतुत्वं न सम्भवति नास्तिकग्रन्थसमाप्तौ व्यभिचारात्। न च स्वजनकविघ्नध्वंसोत्पत्त्यवच्छेदकतासम्बन्धेन समाप्तिं प्रति स्वजन्यविघ्नध्वंसावच्छेदकतासम्बन्धेन मङ्गलस्य हेतुत्वात् स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बन्धेन समाप्तिं प्रति आश्रयतासम्बन्धेन मङ्गलस्य हेतुत्वाद्वा जन्मान्तरीयमङ्गलकल्पनया न व्यभिचार इति वाच्यम्, तथा सति जन्मान्तरीयसमाप्तिमुद्दिश्य जन्मान्तरीयमङ्गलकरणापत्तेरतः स्वप्रतियोगिचरणवर्णावच्छेदकतासम्बन्धेन समाप्तिं प्रति स्वोत्पत्त्यवच्छेदकजातीयतासम्बन्धेन मङ्गलहेतुत्वस्य वाच्यतया नास्तिकशरीरे व्यभिचारस्य दुर्वारत्वात्। न च पुत्रकामाधिकरणविरोधः सहकार्यन्तरासमवधानेनैहिकपुत्राभावेऽप्यामुष्मिकपुत्ररूपफलस्य तत्र सिद्धान्तितत्वादिति वाच्यम्, तत्र पुत्रमात्रकामनाश्रवणादिह तु विशिष्टशिष्टाचारानुमितश्रुत्या ऐहिकसमाप्तेरेव मङ्गलफलत्वात्। न च स्वावच्छेदकावच्छिन्नप्रतियोगिकत्वस्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वोभयसम्बन्धेन मङ्गलजन्यविघ्नध्वंसविशिष्टसमाप्तित्वस्य मङ्गलकार्यतावच्छेदकत्वान्न व्यभिचार इति वाच्यम्, कारणस्य कार्यतावच्छेदकत्वानुपगमात्। अत एव काशीमरणान्मुक्तिरिति श्रुत्यन्तर्गतपञ्चम्याः प्रयोजकत्वपरत्वोपवर्णनं ग्रन्थकृतां सङ्गच्छते। अन्यथा तत्रापि काशीमरणविशिष्टमुक्तिं प्रति काशीमरणहेतुत्वस्य निर्दुष्टतया तथोपवर्णनमसङ्गतं स्यात्। अथ ‘तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाये’ति श्रुत्या तत्त्वज्ञानस्य मुक्तिसामान्यं प्रति हेतुत्वं प्रतिपादितं तच्च काशीमरणस्य मुक्तिहेतुत्वे न सम्भवति काशीमरणजन्यमुक्तौ तत्त्वज्ञानस्य व्यभिचारप्रसङ्गादतः काशीमरणस्य न मुक्तिजनकत्वमपि तु तत्त्वज्ञानद्वारा मुक्तिप्रयोजकत्वमेवेति ग्रन्थकृतां तत्रत्यपञ्चम्याः प्रयोजकत्वपरत्वोपवर्णनं न तु कारणस्य कार्यतानवच्छेदकत्वात्तथोपवर्णनमिति चेदस्तु कारणस्य कार्यतावच्छेदकत्वमस्तु च पूर्वोक्तरीत्या मङ्गलजन्यविघ्नध्वंसविशिष्टसमाप्तित्वस्य कार्यतावच्छेदकत्वेन नास्तिकशरीरे व्यभिचारवारणम्।
एवमपि भोगादिनाश्यविघ्नध्वंसपूर्वकसमाप्तौ क्लृप्तनियतपूर्ववृत्तिताकेन ध्वंसेनैव मङ्गलस्थलीयसमाप्त्युपपत्तेर्मङ्गलस्यान्यथासिद्धत्वं दुर्वारमेव। न च व्यापारेण व्यापारिणो नान्यथासिद्धिरिति वाच्यम्, यत्र व्यापारिणः प्रमाणबोधितकारणतानिर्वाहाय व्यापारस्य कारणत्वं कल्प्यते यथा यागस्य स्वर्गहेतुतानिर्वाहार्थमपूर्वे तत्रैव व्यापारेण व्यापारिणो नान्यथासिद्धिः। अत एव काशीमरणस्य तत्त्वज्ञानेन मुक्तावन्यथासिद्धत्वात् प्रयोजकत्वपरतया श्रुतिसमर्थनं सङ्गच्छते।
न्यायसिद्धान्तमुक्तावली -
नव्यास्तु मङ्गलस्य विघ्नध्वंस एव फलं समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापात्। न च स्वतःसिद्धविघ्नविरहवता कृतस्य मङ्गलस्य निष्फलत्वापत्तिरिति वाच्यम्, इष्टापत्तेः। विघ्नशङ्कया तदाचरणात् तथैव शिष्टाचारात्। न च तस्य निष्फलत्वे तद्बोधकवेदाप्रामाण्यापत्तिरिति वाच्यम्, सति विघ्ने तन्नाशस्यैव वेदबोधितत्वात्। अत एव पापभ्रमेण कृतस्य प्रायश्चित्तस्य निष्फलत्वेऽपि न तद्बोधकवेदाप्रामाण्यम्।
प्रकृते च प्रतिबन्धकाभावस्य कार्यमात्रे हेतुताया मङ्गलकारणतां विनापि क्लृप्ततया मङ्गलस्य अन्यथासिद्धत्वं दुष्परिहरमेवेति विघ्नध्वंसस्य द्वारत्वमिच्छतां प्राचां मतेऽपि विघ्नध्वंसस्य कार्यत्वावश्यकतया विघ्नो मे निवर्ततामिति कामनया मङ्गलाचरणेन च विघ्नध्वंस एव फलमिति वदतां चिन्तामणिकृतां मतमाह - नव्यास्त्विति। विघ्नध्वंस एवेत्येवकारेण समाप्तिव्यवच्छेदः फलं प्रवृत्त्युद्देश्यम्।
ननु समाप्तिस्तर्ह्याकस्मिकी स्यादत आह - समाप्तिस्त्विति। बुद्धिर्ज्ञानं प्रतिभा तद्विशेषः स्फूर्त्याख्यः, प्रतिभादीत्यादिना विघ्नसंसर्गाभावपरिग्रहः। अनयैव रीत्या कारीरीष्टिस्थलेप्यवग्रहनिवृत्तिरेव फलं वृष्टिस्तु स्वकारणादेवेति बोध्यम्। एवं मङ्गलस्य विघ्नध्वंसं प्रति जनकत्वे - स्वतःसिद्धविघ्नविरहवतेति। विघ्नात्यन्ताभाववतेत्यर्थः। ननु निष्फले प्रवृत्तिरेव कथमत आह विघ्नशङ्क्येति। संशयनिश्चयसाधारणविघ्नज्ञानमेव प्रवर्तमिति भावः। तदाचरणात् मङ्गलाचरणात्। ननु विघ्नसंशये मङ्गलाचरणेवासिद्धत्यत्राह तथैवेति। शिष्टाचारादिति। विषयतासम्बन्धेन मङ्गल इति शेषः।
ननु निर्विघ्नपुरुषानुष्ठितमङ्गलस्थलेऽन्वयव्यभिचारेण विघ्नध्वंसं प्रति मङ्गलस्य कारणता बाधिता तथा च बाधितार्थबोधकत्वाद्वेदस्याप्रामाण्यमिति श्रुतेः कारणताबोधकत्वमङ्गीकर्तुमेते शङ्कां निरस्यति न चेति। तस्य, निर्विघ्नपुरुषानुष्ठिनमङ्गलस्य तदबोधकेति। मङ्गलविघ्नध्वंसयोः कार्यकारणभावबोधकेत्यर्थः सति विघ्न इति। तथा चोपदर्शितस्थले प्रतियोगिरूपकारणाभावेन विघ्नध्वंसरूपकार्यानुदयोपपत्तौ कारणतायाः अबाधितत्वेन न कारणताबोधकवेदाप्रामाण्यमिति भावः। अत एव, नाशं प्रति प्रतियोगिनः कारणत्वादेव तद्बोधकवेदाप्रामाण्यमिति. प्रायश्चित्तस्य पापनाशकत्वबोधकवेदाप्रामाण्यमित्यर्थः।
न्यायसिद्धान्तमुक्तावली -
मङ्गलं च विघ्नध्वंसविशेषे कारणम्, विघ्नध्वंसविशेषे च विनायकस्तवपाठादि। क्वचिच्च विघ्नात्यन्ताभाव एव समाप्तिसाधनं प्रतिबन्धकसंसर्गाभावस्यैव कार्यजनकत्वात्। इत्थं च नास्तिकादीनां ग्रन्थेषु जन्मान्तरीयमङ्गलजन्यदुरितध्वंसः स्वतःसिद्धविघ्नात्यन्ताभावो वास्ति इति न व्यभिचार इत्याहुः।
ननु मङ्गलं न विघ्नध्वंसे कारणं विनायकस्तवपाठादिजन्यविघ्नध्वंसे व्यभिचारात् विनायकस्तवस्य मङ्गलत्वेऽपि तदनुकूलकण्ठाभिघातरूपस्य तत्पाठस्य मङ्गलत्वाभावात्। न च पाठकतासम्बन्धेन विनायकस्तवपाठ एव विघ्ननाशकः, स च मङ्गलमेवेति न व्यभिचार इति वाच्यम्, “सर्वे विघ्नाः शमं यान्ति गणेशस्तवपाठतः” इत्यादिना तत्पाठस्यापि विघ्ननाशकत्वबोधनात्। प्रायश्चित्तजन्ये विघ्नध्वंसे व्यभिचाराच्चेत्यत आह मङ्गलं चेति। स्तवपाठादिरित्यादिना प्रायश्चित्तपरिग्रहः। तथा च मङ्गलस्य स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसम्बन्धेन मङ्गलविशिष्टविघ्नध्वंसत्वं विजातीयविघ्नध्वंसत्वं वा कार्यतावच्छेदकम्। एवं विनायकस्तवपाठादेरुपदर्शितसम्बन्धेन विनायकस्तवपाठादिविशिष्टविघ्नध्वंसत्वं वा विजातीयविघ्नध्वंसत्वं वा कार्यतावच्छेदकमिति न व्यभिचार इति भावः।
ननु विघ्नध्वंस एव यदि मङ्गलस्य फलं तदा समाप्तिकामस्य मङ्गले प्रवृर्तिर्न स्यादतः समाप्तिसाधनविघ्नध्वंससाधनत्वान्मङ्गले प्रवृत्तिर्वाच्या तच्च न सम्भवति स्वतः सिद्धविघ्नविरहस्थले व्यभिचारेण विघ्नध्वंसस्य समाप्तिसाधनत्वाभावादिति शङ्कां निरस्यति क्वचिदिति।
नन्वेवमननुगमोऽतोऽनुगतेन रूपेण कारणत्वे बीजमाह प्रतिबन्धकेति। संसर्गाभावस्य संसर्गाभावत्वेन संसर्गाभावस्य। तथा च विघ्नसंसर्गाभावत्वेन हेतुत्वान्न पूर्वोक्तव्यभिचार इति भावः। अत्र च तत्तद्विघ्नाभावत्वेन हेतुता न तु विघ्नाभावकूटत्वेन विघ्नप्रागभावादीनामेकत्रासम्भवेन समाप्तिर्न स्यादिति बोध्यम्। यत्र च मङ्गलं विनापि समप्तिस्तत्र विघ्नध्वंसाभाववति समाप्तेर्दर्शनात् व्यतिरेकव्यभिचारमाशङ्क्य निषेधति। इत्थं चेति। दुरितध्वंसकल्पने तज्जनकीभूतमङ्गलकल्पने च गौरवादाह। स्वतः सिद्धेति। यत्र च मङ्गले सत्यपि न समाप्तिस्तत्र मङ्गलाद्विघ्नध्वंसो भवत्येव समाप्त्यभावस्तु विघ्नभूयस्त्वात्तन्मङ्गलानन्तरोत्पन्नाद्विघ्नाद्वेत्यवधेयम्।
अथ समाप्तिविघ्नध्वंसयोराकाशात्मनिष्ठयोः कथं कार्यकारणभाव इति चेदुच्यते। स्वप्रतियोगिप्रयोजकत्वसम्बन्धेन चरमवर्णध्वंसरूपसमाप्तिं प्रति विशेषणतासम्बन्धेन विघ्नसंसर्गाभावत्वेन हेतुत्वमिति। वस्तुतस्तु आहुरित्यनेन सूचितामन्यथासिद्धिं प्रकटयति। क्वचिच्चेति। विघ्नात्यन्ताभाव एवेत्येवकारेण विघ्नध्वंसस्य तद्द्वारकमङ्गलस्य च व्यवच्छेदः। समाप्तिसाधनं समाप्त्यव्यवहितपूर्ववर्तितया निश्चितः तथा च तेनैव मङ्गलस्थलीयसमाप्तिनिर्वाहे मङ्गलस्य तज्जन्यविघ्नध्वंसस्य चान्यथासिद्धिः। ध्वंसप्रागभावयोरत्यन्ताभावेन विरोधे मानाभावात्। ध्वंसस्थलेऽपि अत्यन्ताभावसत्वादिति भावः।
नन्वन्योन्याभावभिन्नाभावात्वेनैव लाघवाद्धेतुतास्त्वत आह प्रतिबन्धकसंसर्गेति। प्रतिबन्धकसत्त्वेऽपि सम्बन्धान्तरावच्छिन्नाभावस्य सत्त्वात्कार्योत्पादवारणाय तत्तत्संसर्गावच्छिन्नप्रतियोगिताकाभावत्वेनैव हेतुत्वस्य वाच्यत्वेन न ध्वंसस्य हेतुता तस्य संसर्गावच्छिन्नत्वे मानाभावादिति भावः। दुरितध्वंसः दुरितध्वंससामग्रीप्रयुक्तः स्वतःसिद्धो दुरितकारणाभावप्रयुक्तः। एतेन विघ्नध्वंसस्य तदत्यन्ताभावस्य वा समाप्तिहेतुताविचारस्याप्रकृततया तद्व्यवस्थापने प्रकृतानुपयोगः। एवं प्रतिबन्धकाभावकूटस्य हेतुत्वेऽतीतानागतप्रागभावध्वंसयोर्युगपदवस्थानासम्भवेनैकदा कूटाप्रसिद्धिः पूर्वोक्तरीत्या तत्तत्संसर्गावच्छिन्नप्रतियोगिताकत्वस्य प्रतिबन्धकाभावविशेषणत्वेन ध्वंसप्रागभावयोरसंग्रहश्चेति दूषणानि निरस्तानि उक्तरीत्याप्रतिबन्धकात्यन्ताभावस्यैव कार्यमात्रे हेतुत्वादिति। मूले नूतनेत्यादि। नूतनो यो जलधरो मेघस्तस्य रुचिरिव रुचिर्यस्य तस्मै। एतेन यथा नूतनजलधरः शीघ्रं वृष्टिप्रदस्तथायमपि स्वाभिलषितफलप्रद इति सूचितम्।
न्यायसिद्धान्तमुक्तावली -
संसारमहीरुहस्य बीजायेति। संसार एव महारुहो वृक्षस्तस्य बीजाय निमित्तकारमायेत्यर्थः। एतेन ईश्वरे प्रमाणमपि दर्शितं भवति, तथाहि - यथा घटादिकार्यं कर्तृजन्यं तथा क्षित्यङ्कुरादिकमपि। न च तत्कर्तृत्वमस्मदादीनां सम्भवतीत्यतस्तत्कर्तृत्वेनेश्वरसिद्धिः।
नमस्कार्यस्य भगवतः सन्तुष्टतां सूचयितुमाह मूले गोपेति। गोपानां वधूट्यः युवत्यः स्त्रियस्तासां दुकूलानि वस्त्राणि तेषां चोरायेत्यर्थः। तस्मै इति। तच्छब्दः सामान्यतः सकलजनप्रसिद्धत्वसूचनायानेन भगवतो नमस्कारप्रकारीभूतापकर्षावधित्वमुक्तं तदयुक्तं भगवति मानाभावादित्याशङ्क्य नैयायिकमतेनेश्वरसाधकानुमानसूचनायाह संसारेति। संसारस्य महीरुह इति। षष्ठीतत्पुरुषभ्रमं व्यावर्तयितुं कर्मधारयमाह मुक्तावल्याम्। संसार एवेति। बीजत्वं समवायिकारणत्वं तच्चेश्वरे बाधितमत आह निमित्तेति।
नन्वीश्वरे नमस्काररूपं मङ्गलाचरणमयुक्तम् ईश्वरे मानाभावात्, न हि तत्र प्रत्यक्षं प्रमाणमरूपिद्रव्यत्वेन बाह्यप्रत्यक्षाविषयत्वात् नापि मानसं परात्मनः परेण मनसा प्रत्यक्षवारणायात्मप्रत्यक्षं प्रति परात्मव्यावृत्तविजातीयमनःसंयोगत्वेन हेतुत्वस्यावश्यकतया ईश्वरे तस्याभावात्। न च द्यावाभूमी जनयन्नित्यादि श्रुतिरेव प्रमाणं श्रुतीनामीश्वरोच्चरितत्वेन प्रामाण्यादीश्वरसन्देहे श्रुतिप्रामाण्यस्यापि सन्दिग्धत्वादत आह एतेनेति। प्रमाणमनुमानरूपं प्रमाणम्। तता क्षित्यङ्कुरादिकमपीति।
नन्वत्र किं पक्षतावच्छेदकं, न तावत् क्षितित्वम् अङ्कुरादेरपि क्षितित्वेन पृथक् तदुपादानवैयर्थ्यात्। किञ्च क्षितित्वसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे दृष्टान्ते घटादौ अंशतः सिद्धसाधनम्। अवच्छेदकावदच्छेदेन तथात्वे परमाणौ बाधः जन्यक्षितित्वस्य पक्षतावच्छेदकत्वे परमते जन्यपदव्यावृत्त्यसिद्धिस्तन्मतेऽजन्यक्षितेरभावात् जन्यत्वस्यैव तथात्वसम्भवेन पक्षतावच्छेदककोटौ क्षितित्वस्य व्यर्थत्वाच्च। न च तदपि सम्भवति पक्षतावच्छेदकहेत्वोरैक्यप्रसङ्गादिति चेन्न, स्वरूपसम्बन्धविशेषरूपकार्यत्वस्यैव पक्षतावच्छेदकत्वात् प्रागभावप्रतियोगित्वरूपकार्यत्वस्यैव हेतुत्वेन तयोरैक्याभावात् साध्यं च न स्वोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिजन्यत्वं कार्यमात्रं प्रति कृतेरेवान्वयव्यतिरेकाभ्यां हेतुत्वेन तज्जनकज्ञानचिकीर्षयोस्तत्रान्यथासिद्धत्वेन तत्त्रितयजन्यत्वरूपसाध्यस्य तत्र बाधात् दृष्टान्तपक्षसाधारणस्य स्वत्वस्यैकस्याभावेन तद्घटितस्वोपादानगोचरेत्यादिसाध्यस्यासम्भवात् कृतित्वापेक्षयोपादानगोचरकृतित्वस्य गौरवेण जनकतानवच्छेदकत्वाच्च। किन्तु विशेष्यतासम्बन्धावच्छिन्नकृतित्वावच्छिन्नकारणतानिरूपतिसमवायसम्बन्धावच्छिन्नकार्यत्वं तेनादृष्टद्वारास्मदीयकृतिजन्यत्वस्य पक्षे सत्त्वेऽपि न सिद्धसाधनम्। यदि च कार्यमात्रे कृतित्वेनैवान्वयव्यतिरेकाभ्यां ज्ञानत्वेनेच्छात्वेन च हेतुत्वं स्वीक्रियते तदा तादृशज्ञानजन्यत्वमिच्छाजन्यत्वं कृतिजन्यत्वं वा साध्यमस्तु। यत्तु कर्तृजन्यत्वमेव साध्यमिति तन्न, कार्यमात्रे कर्तृत्वेन जनकत्वे मानाभावाल्लाघवात्कृतित्वेनैव तत्र हेतुत्वात्।
ननु कार्यं विशेष्यतासम्बन्धावच्छिन्नकृतिनिष्ठजनकतानिरूपितसमवायसम्बन्धावच्छिन्नजन्यताशालिप्रागभावप्रतियोगित्वादित्यनुमानं फलितं, तत्र च ध्वंसे पक्षतावच्छेदकजन्यत्वाक्रान्ते विशेष्यतासम्बन्धावच्छिन्नकृतिनिष्ठजनकतानिरूपितसमवायसम्बन्धावच्छिन्नजन्यत्वरूपसाध्यस्याभावाद्बाध इति चेन्न, सत्वविशिष्टजन्यत्वस्यैव ध्वंसव्यावृत्तस्य पक्षतावच्छेदकत्वोपगमात्। न च हेत्वधिकरणे ध्वंसे उक्तसाध्याभावेन व्यभिचार इति वाच्यम्। सत्ववैशिष्ट्यस्य हेतौ विशेषणात्। अथैवंरीत्या व्यभिचारवारणेऽपि ध्वंसस्य कृतिजन्यत्वे मानाभावेन कार्यमात्रस्य कृतिजन्यत्वप्रवादो व्याहन्येतेति चेन्न, तादृशप्रवादस्य निर्युक्तिकत्वेनाश्रद्धेयत्वात्। यद्वा जन्यत्वमात्रं ध्वंससाधारणमेव पक्षतावच्छेदकं कृतिजन्यत्वमात्रं साध्यं एवञ्च हेतावपि सत्ववैशिष्ट्यं नोपादेयं प्रयोजनाभावात्। एवञ्च ध्वंसेऽपि ईश्वरीयकृतिजन्यत्वस्य निराबाधतया कार्यमात्रे कृतिजन्यत्वप्रवादोऽप्युपपद्यते इति। न च कृतिजन्यत्वमात्रस्य साध्यत्वेऽदृष्टद्वारा हविरादिगोचरास्मदीयकृतिजन्यत्वमादाय सिद्धसाधनमिति वाच्यम्। अदृष्टाद्वारकत्वेन कृतिजन्यताया विशेषणीयत्वादिति दिक्। एतादृशानुमितौ लाघवज्ञानसहकारेण ज्ञानेच्छाकृतिषु नित्यत्वमेकत्वं च भासते इति नित्यैकत्वसिद्धिः।
अथेश्वरज्ञानादौ कीदृशमेकत्वमनुमित्या विषयीक्रियते न तावत्संख्यारूपं गुणे गुणानङ्गीकारात् न च नित्यज्ञानत्ववन्निष्ठभेदप्रतियोगितानवच्छेदकत्वरूपमेकत्वं तद्विषय इति वाच्यम्, ईदृशैकत्वस्य नित्यज्ञानानुमितेः प्रागनुपस्थितत्वेन तादृशानुमितौ मानासम्भवादिति चेदत्र केचित्, सामानाधिकरण्यसम्बन्धेनैव ज्ञानादावाश्रयगतमेकत्वमनुमितौ भासते। यद्वा द्वित्वासमानाधिकरणत्वरूपमेकत्वं तद्विषयः। न च जीवेश्वरगतद्वित्वसामानाधिकरण्यस्येश्वरज्ञानादौ सत्वाद्बाध इति वाच्यम्, दुःखवदवृत्तित्वेन द्वित्वस्य विशेषणीयत्वात्। न चैवमपि घटेश्वरगतद्वित्वसामानाधिकरण्यस्य तत्र सत्वाद्बाध इति वाच्यम्, आत्मानात्मवृत्तिभिन्नत्वेनापि द्वित्वस्य विशेषणीयत्वादित्याहुः। तन्न। ईश्वरे ज्ञानद्वयाङ्गीकारेऽप्येतादृशैकत्वभाननिर्वाहेणोद्देश्यासिद्धेः। वस्तुतस्तु स्वाधिकरणावृत्तिस्वभिन्नज्ञानकत्वमेवैकत्वमीश्वरेच्छाकृत्योरपि द्रष्टव्यम्। एवञ्च तादृशज्ञानादिसिद्धौ तत्र गुणत्वेन हेतुना द्रव्याश्रितत्वे साधनीये द्रव्यान्तरस्य बाधादीश्वरसिद्धिरिति द्रष्टव्यम्॥
न्यायसिद्धान्तमुक्तावली -
न च शरीराजन्यत्वेन कर्त्रजन्यत्वसाधकेन सत्प्रतिपक्ष इति वाच्यम्। अप्रयोजकत्वात्। मम तु कर्तृत्वेन कार्यत्वेन कार्यकारणभाव एव अनुकूलस्तर्कः “द्यावाभूमी जनयन्देव एकः”, “विश्वस्य कर्ता भुवनस्य गोप्ता” इत्यादयः आगमा अप्यनुसन्धेयाः।
अप्रयोजकत्वादिति। अनुकूलतर्काभावादिति भावः। इदमुपलक्षणं शरीराजन्यत्वहेतौ शरीररूपविशेषणस्यासिद्धिवारकस्यापि व्यभिचारावारकत्वेन व्यर्थतया तद्विशेषणावच्छेदेन व्याप्तिग्रहासम्भवेन व्याप्यत्वासिद्धिश्चेत्यपि द्रष्टव्यम्। न च व्यर्थविशेषणत्वस्याधिकोक्त्या निग्रहस्थानत्वेऽपि तज्ज्ञानस्य व्याप्तिज्ञानप्रतिबन्धकत्वे मानाभाव इति वाच्यम्, तथापि गुरुधर्मस्यानवच्छेदकतया साध्यसम्बन्धितावच्छेदकरूपव्याप्तेस्तत्राभावेन व्याप्यत्वासिद्धेर्दुर्वारत्वादिति। तदुक्तमाचार्यैः “एकामसिद्धिं परिहरतो द्वितीयापत्ते”रिति। कर्तृत्वेन कार्यत्वेन कार्यकारणभाव एवेति। न चान्वयव्यतिरेकाभ्यां घटत्वाद्यवच्छिन्नं प्रति कुलालादिकृतित्वेनैव हेतुत्वादेस्तादृशकार्यकारणभावे मानाभाव इति वाच्यम्। घटत्वपटत्वादिभेदेनानन्तकार्यकारणभावकल्पनापेक्षया कार्यत्वावच्छिन्नं प्रति कृतित्वेन हेतुत्वकल्पनस्यैवोचितत्वात्। यद्विशेषयोरिति न्यायेन कार्यत्वकृतित्वाभ्यां सामान्यकार्यकारणभावस्यावश्यकत्वाच्च न चैतादृशन्यायो निष्प्रमाणक इति वाच्यम्। कार्यत्वावच्छिन्नाभावे तत्तत्कृत्यभावकूटस्य प्रयोजकत्वकल्पने गौरवात् कृतित्वावच्छिन्नाभावस्यैकस्य प्रयोजकत्वे लाघवादिति। केचित्तु मास्तु कार्यत्वं कृतेः कार्यतावच्छेदकं तथापि घटत्वाद्यव्चछिन्नं प्रति कृतेः कारणतया सर्गाद्यकालीनघटादिकं पक्षीकृत्य घटत्वादिहेतुना सकर्तृकत्वसाधने जीवानां बाधादीश्वरसिद्धिरित्याहुः। दीधितिकृतस्तु कार्यत्वावच्छिन्नं प्रति कृतेर्हेतुत्वाभावेन घटत्वाद्यवच्छिन्नं प्रति कृतेर्हेतुतया खण्डघटोत्पत्तेः पूर्वं कृतेरावश्यकतया तदाश्रयत्वेनेश्वरसिद्धिमाहुः।
नन्वेवंरीत्या घटादिकुलालादिचेष्टयोरन्वयव्यतिरेकाभ्यां कार्यत्वावच्छिन्नं प्रति चेष्टात्वादिना हेतुत्वादङ्कुराद्युत्पत्तेः पूर्वं चेष्टानुरोधेनेश्वरस्य नित्यशरीरमपि सिद्ध्येदिति चेन्न, तादृशान्वयव्यतिरेकाभ्यां कार्यत्वावच्छिन्नं प्रति क्रियात्वेनैव हेतुत्वात्तत्र चेष्टात्वेन हेतुत्वे मानाभावात्।
आचार्यमतानुयायिनस्तु अस्तु चेष्टात्वेन तत्र हेतुत्वम् अस्तु च तदनुरोधेनेश्वरस्य नित्यं शरीरं तथापि नेश्वरस्यातिरिक्तशरीरसिद्धिः परमाणूनामेव तच्छरीरत्वोपगमात् एवञ्चेश्वरकृतिजन्यचेष्टावद्भिः परमाणुरूपशरीरैरेव तत्तत्कार्याणामुत्पत्तिः परमाणुक्रियायां चेष्टात्वरूपवैजात्याङ्गीकाराच्छरीरलक्षणेन्त्यावयवित्वस्यानिवेशाच्च न परमाणूनां शरीरत्वानुपपत्तिः। न च नानापरमाणूनां शरीरत्वकल्पने गौरवाल्लाघवेन तस्यातिरिक्तशरीरसिद्धिरिति वाच्यम्, तच्छरीरस्य महत्वेऽभग्नस्य तस्य पाषाणादौ प्रवेशासम्भवेन पाषाणान्तर्वर्तिभेकशरीरोत्पादकतानुपपत्तेः। अणुत्वे च दूरस्थकार्योत्पादकत्वानुपपत्तेरित्याहुरित्यलं पल्लवैरिति।
यत्तु पूर्वोक्तस्थापनानुमाने शरीरजन्यत्वमुपाधिः तस्य घटादौ साध्यव्यापकत्वात् अङ्कुरादौ साधनाव्यापकत्वाच्च। न चाङ्कुरादौ सकर्तृकत्वरूपसाध्यसन्देहे नोपाधेः साध्यव्यापकत्वसंशयान्नोपाधित्वनिश्चय इति वाच्यम्, तथापि सन्दिग्धोपाधित्वस्य दुर्वारत्वात्। न चोपाधिसन्देहाहितो व्यभिचारसन्देहः पक्षीयव्यभिचारसन्देह एव स च न प्रतिबन्धक इति वाच्यं, पक्षतत्समयोर्व्यभिचारसंशयस्यापि प्रतिबन्धकत्वादत एवानुकूलतर्कविरहदशायां पक्षेतरत्वं सन्दिग्धोपाधिरित्यभिधानं ग्रन्थकृतां सङ्गच्छते इति चेन्न, कार्यत्वेन कृतित्वेन कार्यकारणभावरूपस्यानुकूलतर्कस्य सत्वेन कार्यत्वरूपहेतोः साध्यव्याप्यत्वनिश्चयत्वेन साध्याव्यापकत्वेनोपाधौ साध्याव्यापकत्वनिश्चयादिति। एवञ्चोक्तानुमानेनेश्वरसिद्धौ तदुच्चरितत्वेन वेदस्य प्रामाण्यनिश्चयाद्वेदोऽपि ईश्वरे प्रमाणमित्याह। द्यावाभूमी जनयन्निति। इत्यादय इति। आदिना ईश्वरमुपासीत “यः सर्वज्ञः सर्ववित्, यस्य ज्ञानमयं तपः सोऽकामयत” इत्यादीनां परिग्रहः। कार्यपक्षकानुमानं चोपलक्षणम्। सर्गाद्यकालीनद्व्यणुकप्रयोजकं कर्म प्रयत्नजन्यं कर्मत्वात् गुरुत्ववतां पतनाभावः पतनप्रतिबन्धकप्रयत्नप्रयुक्तः पक्षिपतनाभाववत्, धृतित्वात् ब्रह्माण्डनाशः प्रयत्नजन्यः नाशत्वात् घटनाशवत्, घटादिव्यवहारः स्वतन्त्रपुरुषप्रयोज्यः व्यवहारत्वात् आधुनिककल्पितलिप्यादिवत्, वेदजन्यप्रमा वक्तृयथार्थवाक्यार्थज्ञानजन्या शाब्दप्रमात्वात् चैत्रवाक्यजन्यप्रमावत्, वेदः असंसारिपुरुषप्रणीतः वेदत्वात्, वेदः पौरुषेयः वाक्यत्वात्, यन्नैवं तन्नैवं यथा काव्यमिति व्यतिरेकदृष्टान्तः भारतवत्, द्व्यणुकपरिमाणजनिका संख्या अपेक्षाबुद्धिजन्या एकत्वान्यसंख्यात्वादित्यनुमानान्तराण्यपि साक्षात्परम्परया वा ईश्वरसाधकानि बोध्यानीति। तदुक्तम्, “कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः। वाक्यात्संख्याविशेषाच्च साध्यो विश्वजिदव्यय” इति।