मङ्गलवादः
गुणातीतोऽपीशस्त्रिगुणसचिवस्त्र्यक्षरमय-
स्त्रिमूर्तिर्यः सर्गस्थितिविलयकर्माणि तनुते ।
कृपापारावारः परमगतिरेकस्त्रिजगतां
नमस्तस्मै कस्मैचिदमितमहिम्ने पुरभिदे ॥ 1 ॥
अन्वीक्षानयमाकलय्य गुरुभिर्ज्ञात्वा गुरूणां मतं
चिन्तादिव्यविलोचनेन च तयोः सारं विलोक्याखिलम् ।
तन्त्रे दोषगणेन दुर्गमतरे सिद्धान्तदीक्षागुरु-
र्गङ्गेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम् ॥ 2॥
यतो मणेः पण्डितमण्डनक्रिया
प्रचण्डपाषण्डतमस्तिरस्क्रिया ।
विपक्षपक्षे न विचारचातुरी
न च स्वसिद्धान्तवचोदरिद्रता ॥ 3॥
इह खलु सकलशिष्टैकवाक्यतया अभिमतकर्मारम्भसमये तत्समाप्तिकामा मङ्गलमाचरन्ति । तत्र यद्यपिमङ्गलस्य कारणता नान्वयव्यतिरेकगम्या, मङ्गलं विनापि प्रमत्तानुष्ठितसमाप्तेः। न च तत्र जन्मान्तरीयतत्कल्पनम्; अन्योन्याश्रयात्, लोकावगतकारणेनान्यथासिद्धेश्च। नापि मङ्गलं सफलम्- अविगीतशिष्टाचारविषयत्वात्, दर्शवदिति फलसिद्धौ, प्रारिप्सितसमाप्तेस्तदानीमपेक्षितत्वेन नियमेनोपस्थितत्वात्, फलान्तरस्यातथाभावात्, विश्वजिन्न्यायेन फलकल्पने गौरवात्, परिशेषानुमानेन तत्कारणताग्रहः। व्यभिचारेण कारणत्वस्याभावात् उपायसहस्रेणापि ग्रहीतुमशक्यत्वात्। तथापि तथाविधशिष्टाचारानुमितश्रुतिरेव मङ्गलस्याभिमतहेतुत्वे मानम्। न च व्यभिचारः, निष्परिपन्थिश्रुत्या मङ्गलं समाप्तिसाधनमिति प्रमापिते तत्रापि तयैव लिङ्गेन जन्मान्तरीयतदनुमानात्।
तच्चेदं- आरब्धकर्माङ्गम्- कर्मार्थितया शिष्टैस्तत्पूर्वं क्रियमाणत्वात्, फलान्तराभावे सति फलवत्कर्मारिप्समानेन नियमतस्तत्पूर्वं क्रियमाणत्वाच्च, दर्शे प्रयाजादिवत्। आचारमूलकश्रुत्यनुमानाभ्यां तदर्थितया तत्फलकर्तव्यत्वबोधनात्, तत्फलकत्वबोधनाच्च। दर्शारम्भसमये नियमेन क्रियमाणाया अप्यारम्भणीयायाः तदर्थितया अक्रियमाणत्वात्, फलान्तरश्रवणाच्च प्रधानत्वमिति न तया व्यभिचारः। ननु मङ्गलमलौकिकं लौकिके नाङ्गं भवति, लोकावगतकारणत एव तदुपपत्तेः ।
अत एव गृहरथादौ "आरे भग्रे इन्द्रबाहुर्र्बद्धव्यः" "पायसं ब्राह्मणो भोजयितव्यः" इत्यत्र तदुभयं नाङ्गम् , किं तु नैमित्तिकम् । तद्वदिदमप्यारम्भसमयनिमित्तकमस्तु।
विश्वजिन्न्यायात् स्वर्गः फलमिति चेत् ,न। तस्यापूर्वरूपोपकारजनकाङ्गविषयत्वात् । अयं तु प्रतिबन्धकाभावरूप उपकारः ।
तस्य च लोकावगतकारणसहकारितैव । प्रतिबन्धके सति तस्मात्तदनुत्पत्तेः । अपूर्वं तु न तथा । विघ्नध्वंसद्वारा चेदमङ्गम् , न तु "इडो यजति" इत्यादिविधिबोधितप्रयाजाद्यङ्गयागवददृष्टद्वारा। मङ्गलजन्यादृष्टं विनापि स्वतःसिद्धविघ्नविरहवत आरब्धनिर्वाहात् । न चैवं विघ्नध्वंसद्वारापि नेदमङ्गम् , तत्रैव व्यभिचारादिति वाच्यम् । सति विघ्ने तद्ध्वंसद्वारा तस्याङ्गत्वात् । न चैवं प्रयाजादेरपि दुरितध्वंस एव द्वारम् , कल्प्यदुरितध्वंसतः अपूर्वस्य लघुत्वात्।
वस्तुतस्तु प्रायशो विघ्नसंशये तन्निश्चये वा नियमेन शिष्टानां मङ्गलाचरणे विघ्नाभाव एव द्वारत्वेनाभिमतः। निर्विघ्नंं समाप्यतामिति कामनया तत्करणपक्षे श्रुतित एव (द्वारत्व) तद्द्वारत्वनिर्णयः। किं चापूर्वे द्वारत्वे लौकिकाङ्गत्वविरोधः, क्लृप्तकारणादेव तदुत्पत्तेरिन्द्रबाहुबन्धनवत्।
ननु विघ्नसंदेहे कथं तन्नाशार्थं प्रवृत्तिः, दुरितध्वंसार्थिप्रवृत्तौ तन्निश्चयस्य हेतुत्वात् प्रायश्चित्तवदिति चेत्, न। विघ्नसंशये निश्चये वा नियमेन शिष्टानां मङ्गलाचारात् विघ्नज्ञानं प्रवर्तकम् । तादृशाचारानुमितविधिनापि विघ्नज्ञानवानारब्धसमाप्तिकामोऽधिकारी बोध्यते । प्रायश्चित्ते तु तन्निश्चयवान्, तथैव विधिबोधनात्। अत एवाधिकारिविशेषणं विघ्न इति तत्संदेहे कथं प्रवृत्तिः, वैदिकेऽधिकारनिश्चयादेव प्रवृत्तेरित्यपास्तम्। यतः प्रधानाधिकारिण एवाङ्गेऽधिकारो न स्वतन्त्रः, अङ्गत्वभङ्गप्रसङ्गात्। न च प्रधाने प्रारिप्सिते दुरितमधिकारिविशेषणम्, विरोधात्। किं तु समाप्तिकामना । सा च निश्चितैव।
यत्त्वन्यत्र निश्चिताधिकारकर्तृत्वेऽपि मङ्गलं संदिग्धाधिकारकर्तृकमेव , विघ्नसंदेहवतां शिष्टानामाचारानुमितवेदेन तथैव बोधनादिति । तन्न । विघ्नवत्त्वेनाधिकाराभावात्।
क्वचित्तन्निश्चयेऽपि प्रवृत्तेश्च । अपि च शङ्कितानिष्टवारणार्थमपि प्रवर्तन्ते परीक्षकाः, यथा सर्पादिदंशजन्यविषसंशये तन्नाशाय भेषजपानादौ । किं च फलस्य संशयेऽप्युपायत्वनिश्चयाद्यथा– कृष्यादौ प्रवृत्तिस्तथा मङ्गलेऽपि। यदि च वृष्ट्यादौ सति कृष्यादितोऽवश्यं फलमिति तर्कात्तत्र प्रवृत्तिस्तदा सति विघ्ने मङ्गलादवश्यं फलमिति तर्कादत्रापि प्रवृत्तिः ।
ननु यस्य भक्ताश्लेषनिमित्तेज्यायामिष्टित्वेन दर्शधर्मत्वे सत्यतिदेशागतपूर्वदिनकर्तव्यदेवतावाहनस्याङ्गस्य चाश्लेषद्वारसंशयेऽननुष्ठानमुक्तम् , यथा कृष्णलेद्वारबाधे । अतो विघ्नसंशयात्तद्ध्वंसद्वारसंशये कथं मङ्गलानुष्ठानमिति चेत्, न। नैमित्तिके हि निमित्तवानधिकारी, यथा ‘भिन्ने जुहोति’ इत्यत्र पात्रभेदवान्।
तथेहाश्लेषवानधिकारीति पूर्वदिने आश्लेषनिश्चयाभावात् युक्तमननुष्ठानम् ।
अपि चेज्याकर्तव्यतानिश्चये तदनुष्ठानम् । न चाश्लेषसंशये तन्निश्चयः पूर्वदिने । अतः प्रधानेऽधिकाराभावान्नाङ्गेऽधिकार इति नावाहनं पूर्वदिने। यदि च "यदि न स्यात्" इति न्यायेन कुर्यात् तदा अनधिकृतकर्तृकत्वेन निष्फलं स्यात्। आश्लेषे सतीज्याकर्तव्यतानिश्चयेऽपि नावाहनम्, पूर्वदिनस्याङ्गस्याभावादिति इज्यायामावाहनबाध एव। मङ्गले तु विघ्नज्ञानवानधिकारीत्युक्तम्। तच्च संशयेऽप्यस्ति। प्रधाने कर्तव्यतानिश्चयोऽस्त्येवेति द्वारसंदेहेऽपि युक्तमनुष्ठानम्। भविष्यद्विवाहादावाभ्युदयिकेऽपि तज्ज्ञानवानधिकारी तथैवाचारात्।
नन्वङ्गानां प्रधानविधिविधेयत्वम्। न च ग्रन्थादिसमाप्तौ प्रधानविधिरस्ति। न च तत्कर्तव्यताबोधकस्य लौकिकप्रमाणस्य शास्त्रमेकदेशो युज्यते । तस्य तन्निरपेक्षत्वादिति चेत्, न। अपूर्वजनकाङ्गानां तथात्वात् ,आचारानुमितश्रुत्या प्रधानविधिं विनापि तदङ्गत्वविधानाच्च।
अपि च प्रधानकर्तव्यताबोधकबोध्यकर्तव्यताकत्वंं प्रयोजकम् । तच्चेहाप्यस्ति, प्रतिबन्धकाभावस्य सकलकार्यहेतुत्वेन लौकिकप्रमाणस्यापि तत्सापेक्षत्वात्।
ननु यागादिवत् प्रधानदेशकालान्वयस्तदङ्गे मङ्गले स्यादिति चेत्, न । असाधारणेऽपूर्वजनके चाङ्गे तदन्वयात्। अत एव बद्धशिखत्वादौ न प्रधानदेशकालान्वयः।
न च दुरिताभावे स्वतसिद्धे साङ्गमङ्गलानुष्ठानं निष्फलमिति तद्वेदाप्रामाण्यम् । लोकावगतकारणे हि दुरिते सति वेदेन तस्य तद्ध्वंसजनकत्वं बोध्यते, न तु तदुल्लङ्घ्यम्। अत एव तत्त्वज्ञानवतो भोगार्थं निषिद्धानुष्ठानं दोषाभावान्नाधर्मजनकमिति न तद्वेदाप्रामाण्यम्। प्रमाणान्तरात् स्वतःसिद्धदुरिताभावावगतौ मङ्गलाकरणे नित्यवदनुष्ठानं शिष्टानां भज्येतेति चेन्न। विघ्नज्ञानवतो नित्यवदनुष्ठानादिति संप्रदायः।
मैवम् , मङ्गलं विनापि प्रमत्तानुष्ठितसमाप्तेः। न च तेन विनापि सिध्यतस्तदङ्गम् । न च जन्मान्तरीयं तत्, जन्मान्तरीयग्रन्थादिकमुद्दिश्य शिष्टैस्तदकरणात्।
ननु यथा पुत्रेष्टौ कर्मसाद्गुण्ये ऐहिकफलाभावे आमुष्मिकं फलं तथा साङ्गेऽपि मङ्गले यत्र न फलं तत्रामुष्मिकफलमिति चेत् , न। तत्र पुत्रमात्रस्य कामनाश्रवणात्।
इह तु प्रारिप्सितसमाप्तिकामनया मङ्गलाचार इति तथैव वेदानुमानात् कारीरीवदासन्नसमयारब्धसमाप्तिः फलम् ।
नन्वासन्नसमयस्तत्संफ्रान्धो वा न मङ्गलजन्य इति समाप्तिमात्रं जन्यम् । तच्चैहिकामुष्मिकसाधारणमिति चेत् , न। आसन्नसमयस्य स्ववृत्तिसमाप्त्युपलक्षकत्वात्।
अन्यथा कारीर्यपि नासन्नसमयफला स्यात् । तस्मात् व्यभिचारान्न तदङ्गमिति।
अन्ये तु मङ्गलं प्रधानम् ,अदृष्टद्वारा आरब्धकर्मसमाप्तिः फलम् , तत्कामोऽधिकारी । क्वचित्तु फलाभावः कर्मादिवैकल्यात्, कारीरीवत् । न चान्यदापिकरणम्। नियतकालीनतादृशाचारेण फलवत्कर्मारिप्समानस्तत्समाप्तिकामो मङ्गलमाचरेदिति श्रुत्या आरम्भसमयकर्तव्यताबोधनात् । यथा "आग्नावैष्णवमेकादशकपालं चरुं निर्वपेद्दर्शपूर्णमासावारिप्समानः" इति श्रुत्या आरम्भणीयेष्टेः प्रधानायाः दर्शारम्भसमयकर्तव्यत्वम् ।
कामनोपाधिकार्यत्वेऽप्यारम्भसमये नित्यमनुष्ठानम्। आरब्धकर्मसमाप्त्यर्थिनोपायत्वेनावश्यं तदनुष्ठानात्। न च काम्यत्वे परिसमाप्तिकामनां विना फलवत्कर्मारम्भेऽपि तदनुष्ठानं न स्यादिति वाच्यम् । ‘समाप्तं कर्म फलायालमि’ति फलार्थिनः समाप्तौ कामनावश्यम्भावादिति ।
तन्न। कारीरीजन्यातिशयवत् विहितप्रधानजन्यातिशयत्वात् मङ्गलजन्यापूर्वस्यापि फलासम्पादकाशेषकारणसम्पादकतया आरब्धकर्मसमाप्त्यवश्यम्भावापत्तेः फलावश्यम्भावनिश्चयं विना वैदिककर्माननुष्ठानात्। न चैवम् , भूयसि साङ्गेऽपि मङ्गले क्वचिदारब्धसमाप्त्यभावात् । न च तत्रामुष्मिकं फलम् , ऐहिकमात्रफलत्वात्।
वैदिककर्मणः फलावश्यम्भावेनागन्तुकदुरितेनाप्यप्रतिबन्धात्।
किञ्च यथा कारीर्यादिकमग्रिमपुरुषव्यापारं विनैव फलहेतुः, तथा मङ्गलमपि तेन विनैव हेतुः स्यात् । न चैवम् । लोकावगतकारणत्वात्तदपेक्षेति चेत् , तर्हि स एव हेतुरस्तु , किमनेन । आरब्धकर्मजनकादृष्टकारणसंपत्तौ पुत्रेष्टिवत्तत्समाप्तिसाधनत्वं श्रुत्या बोध्यत इति चेत् , न । तत्र दृष्टकारणसंपत्तौ पुत्रानुत्पादाददृष्टद्वारा
पुत्रेष्टेस्तज्जनकत्वमस्तु। न च कर्मनिर्वाहे दृष्टसकलहेतुसंपत्तौ विलम्बः, येन मङ्गलजन्यादृष्टापेक्षा स्यात् ।
अपि च मङ्गलं विनापि प्रमत्तनास्तिकानुष्ठितसमाप्तेः न तत्तत्र कारणम् । जन्मान्तरीयपुण्यसम्पत्तिस्तत्र हेतुरिति चेत् , न । तथापि व्यभिचारात् । क्वचित्
पुण्यसम्पत्तिः क्वचिन्मङ्गलं हेतुरिति व्रीहियववद्विकल्प एवेति चेत् , तर्हि तत्सम्भावनया मङ्गलानुष्ठानं न स्यात् , यवप्रयोगे व्रीहेरिव । विकल्पे चोभयस्याशास्त्रार्थत्वात्।
ननु विधिवाक्यं न फलनियतपूर्वसत्त्वं बोधयति, किं तु मङ्गलात् फलावश्यम्भावमिति चेत्, न । इष्टसाधनत्वस्य विध्यर्थत्वात् । अथान्वयव्यतिरेकाभ्यां
तद्ग्रहे व्यभिचारो दोषाय, न त्वागमेन तद्ग्रहे । तदुक्तम् ‘आगममूलत्वाच्चास्यार्थस्य व्यभिचारो न दोषाये’ति । अत एव यागादेः स्वर्गसाधनतेति चेत् , न ।
नियतपूर्वसत्त्वस्य ग्राह्यस्याभावादागमेनापि बोधयितुमशक्यत्वात् । यागजनितस्वर्गे कारीरीजनितवृष्टौ च जातिविशेष एवास्ति ।
अपरे तु मङ्गलस्यारब्धनिर्वाहकत्वं विघ्नसंसर्गाभावद्वारा, तथैव प्रतिबन्धकाभावस्य हेतुत्वात् । स चाभावः सतो विघ्नस्य ध्वंसोऽनागतस्यानुत्पादश्च कर्मनिर्वाहसमयस्थायी । विघ्नकारणविनाशद्वारा प्रागभावस्य साध्यत्वम् । यस्मिन् सत्यग्रिमक्षणे यस्य सत्त्वम्, यद्व्यतिरेके चासत्त्वम् , तदेव तस्य तज्जन्यत्वं न
त्वसतः सत्त्वं, गौरवात् । अस्ति च विघ्नकारणनाशे सति विघ्नप्रागभावस्य तथात्वम्। तावति समये दुरितानुत्पादश्च न साक्षान्मङ्गलजन्य इत्यदृष्टद्वारा तथा। एवं निर्विघ्नं समाप्यतामिति कामनया तदाचारोऽपि संगच्छते । अत एव यत्र विघ्नाभावः स्वतः सिद्धः तत्र मङ्गलस्याकिञ्चित्करत्वेन वेदाप्रामाण्यमिति निरस्तम्।
अनागतविघ्नाभावस्य तत्रापि साध्यत्वात् ।
‘ सर्वे विघ्नाः शमं यान्ति’ इति यत्र विनायकस्तवपाठादौ श्रुतमस्ति तत्र तत एव प्रमत्तानुष्ठितसमाप्तेरनादौ संसारेऽवश्यं तदाचारात् । तथा च तेन समं मङ्गलस्य विकल्प एव । यत्र च साङ्गे मङ्गले सत्यपि न फलं तत्र विघ्नभूयस्त्वादिति ।
तन्न । विघ्नानुत्पादस्य व्यापारत्वे मानाभावात् । संसर्गाभावत्वेन हेतुत्वात् तथैव व्यापारत्वम् , तच्च प्रागभावेऽप्यस्तीति चेत् , न। अत्यन्ताभावस्यापि व्यापारत्वापत्तेः।
स्वतस्सिद्धस्य न हेतुत्वं यदि, तदा प्रागभावेऽपि तुल्यम् ।
किञ्च यत्र मङ्गलं न तत्र नियमेन विघ्नकारणमस्ति, येन तन्नाशद्वारा प्रागभावस्य साध्यत्वम् । एवमपि यत्र विघ्नानुत्पादोऽपि स्वतस्सिद्धस्तत्र मङ्गलमकिञ्चित्करमेव। विघ्नध्वंसानुत्पादयोरारब्धनिर्वाह–कालावस्थायिनोर्मङ्गलादेवोत्पत्तेर्न तदर्थमदृष्टद्वारता । मङ्गलस्य विकल्पेनान्वये शिष्टैर्नियमतो मङ्गलानुष्ठानं न स्यादित्युक्तम् ।
किञ्च प्रधानत्वे साङ्गमङ्गलमात्रं न समाप्तिहेतुः, तस्मिन् सत्यपि तदभावात् । प्रचितं तथेति चेत्, न । अप्रचितादपि फलसत्त्वात् । नोभयम्, अननुगमात् ।
गुरुकर्मारम्भे प्रचितम्, अल्पकर्मारम्भेऽल्पमिति चेत्, न । क्वचित्तादृशादपि फलासत्त्वात्, वैपरीत्येऽपि फलसत्त्वाच्च। एतेन बहुविघ्नशङ्कया बहुतरम् , अल्पविघ्नशङ्कया अल्पतरं च हेतुः, तादृशाचारेण तादृशश्रुत्युन्नयनादिति निरस्तम् । तादृशादपि प्रारिप्सितासमाप्तेः, वैपरीत्येऽपि समाप्तेश्च। बहुत्वस्य त्रिचतुरादिभावेन अल्पत्वस्य
चैकद्व्यादिरूपतया अननुगमेन तादृशशिष्टाचारेण तादृशश्रुत्या बोधयितुमशक्यत्वाच्च।
तस्मान्मङ्गलं नाङ्गम्, न वा प्रधानमिति पूर्वपक्षसंक्षेपः ॥
इति मङ्गलवादपूर्वपक्षः
अथ मङ्गलवादसिद्धान्तः
सिद्धान्तस्तु - आरब्धाकर्मसमाप्तौ मङ्गलं नाङ्गम् , न वा प्रधानम् , अहेतुत्वात् । किं तु प्रायश्चित्तवत् प्रधानं, विघ्नध्वंसः फलम् । आरब्धकर्मनिर्वाहे विघ्नो
मा भूदिति कामनया तदनुष्ठानात् । विघ्नस्य संशये निश्चये वा शिष्टानां तदाचरणाद्विघ्नाभावस्याकाङ्क्षितत्वाच्च । यदि च निवर्विघ्नं समाप्यतामिति कामनया तदाचरणम्, तदापि नागृहीतविशेषणन्यायेन अहं स्वर्गी स्यामित्यत्र स्वर्ग इव विघ्नाभाव एव फलं न समाप्तिः, उभयतो व्यभिचारात् । समाप्तिस्तु विघ्नरूपप्रतिबन्धकाभावे
सति लोकावगतस्वकारणादेव। प्रचिताप्रचितदेवतास्तुत्यादिसाङ्गमङ्गलात् प्रत्येकं विघ्नध्वंसो भवत्येव । अतो वैदिके फलनिश्चयान्मङ्गले प्रवृत्तिः। न च वेदाप्रामाण्यम्।
समाप्त्यभावश्च क्वचित् प्राचीनविघ्नभूयस्त्वात्, क्वचिन्मङ्गलानन्तरोत्पन्नविघ्नात्, क्वचिल्लोकावगतकारणाभावात्। प्रारिप्सितविघ्नध्वंसश्च न मङ्गलं विना।
न च प्रायश्चित्तेन शङ्कितविघ्नविनाशः, विघ्नसंशये तदनुपदेशात्। न च कामनोपाधिकर्तव्यत्वे नियतमनुष्ठानं न स्यादिति वाच्यम्।
आरब्धकर्मकारणप्रतिबन्धकाभावोपायत्वेनावश्यं तदनुष्ठानात्। तेन विना प्रतिबन्धकाभावाभावात् कर्मानुत्पत्तेः। न च प्रधानत्वेनान्यदापि तत्करणम्।
नियतसमयशिष्टाचारानुमितश्रुत्या कर्मारम्भसमये तत्कर्तव्यत्वबोधनात्, दर्शारम्भसमये तत्कर्तव्यत्वबोधनात् दर्शारम्भसमये आरम्भणीयावत्।
विघ्नसंसर्गाभावश्च समाप्तिहेतुः। स च क्वचित् स्वतः सिद्धः क्वचिन्मङ्गलसाध्यः। अत एव मङ्गलं विनापि जन्मान्तरानुवर्तमानविघ्नात्यन्ताभावात् प्रमत्तनास्तिकानुष्ठितसमाप्तिः। न चानध्यवसायः। शङ्कितविघ्नवारणार्थं प्रवृत्तिरतोे यावद्विघ्नशङ्कं तदाचरणात्। अत एव तच्छङ्कया मध्येऽपि तदाचरन्ति।
गुर्वारम्भेऽपि बहुविघ्नशङ्कया बहुमङ्गलाचरणम्। यथा च विघ्नसंशयेऽपि प्रवृत्तिस्तथोक्तमेव। स्यादेतत्। मङ्गलमाचरेदिति विधौ किं मङ्गलत्वम्। न तावद्देवतास्तुत्यादित्वम्, अननुगमात्। नापि प्रारिप्सितप्रतिबन्धकविघ्नोपशमहेतुक्रियात्वम् , विघ्नोत्सारणासाधारणकारणत्वं वा। क्रियाविशेषस्य तदसाधारणकारणस्य वा स्तुत्यादेर्वेदाद्विशिष्टापरिचये प्रवृत्तिविषयालाभात्। नापि निर्विघ्नं समाप्यतामिति कामनया शिष्टाचारविषयत्वम् , वेदस्याचारानुपजीवकत्वात्, वेदादाद्याचारानुपपत्तेश्च,अन्योन्याश्रयात्। नापि तत्कामनया वेदविहितत्वम् , प्रारिप्सितकर्मनिर्वाहकत्वे सति कर्मारम्भकाले विहितवैदिककर्मत्वं वा, तादृशवेदान्तराभावात्। नापि स्मृत्यादौ मङ्गलत्वेनोत्कीर्तितत्वम् , वेदस्य स्मृत्यनुपजीवकत्वात्। स्मृतिकर्तुरेव वेदादाद्याचारानुपपत्तेश्च।
उच्यते । मङ्गलमाचरेदिति न विधिः। किं तु निर्विघ्नसमाप्तिकामो देवतास्तुतिमाचरेदित्यादि प्रत्येकमेव विधिः। तथैव शिष्टाचारात्। तदुपजीव्य निर्विघ्नमारब्धंं परिसमाप्यतामिति कामनया तद्विघ्नोपशमहेतुत्वेन वा वेदविहितत्वं मङ्गलत्वमित्यधिगम्य देवतास्तुतिनमस्कारादिषु मङ्गलव्यवहारः शिष्टानामिति। अत एव दुरितनाशकमपि गङ्गास्नानादि न मङ्गलम्। तथा अविधानात्।
"मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम्।
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥"
इत्यनेन बोधितादर्शदर्शनादेः पृथगेव मङ्गलत्वम्, न विघ्ननिवर्तकतया । तत्र नानार्थतैव। अन्यथा ग्रन्थारम्भे नमस्कारतुल्यतया तत्करणप्रसङ्गः।
अथशब्दो विघ्ननिवर्तकत्वान्मङ्गलमेव।
"ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्वा विनिर्यातौ तेन माङ्गलिकावुभौ॥"
इति स्मृतेः। न च शुभसूचकत्वमेव तस्य, शास्त्रारम्भे महर्षिणा तदनुपादानप्रसङ्गात्। गुणवत्तया ज्ञापनं स्तुतिः। यमुद्दिश्य यस्य स्वापकर्षबोधनानुकूलो व्यापारविशेषः स तस्य नमस्कारः। व्यापारे च कायिकवाचिकमानसिकरूपे विशेषो जातिविशेष एवानुभवसाक्षिकः। करशिरस्संयोगमात्रे तदव्यवहारात्, भवतोऽहमपकृष्ट इत्यादिवचने तदव्यवहाराच्च।
यद्वा कायिकादौ प्रत्येकमेव विधिकल्पनमतो नानार्थतैव।
यत्तु बुद्धिविशेषपूर्वकत्वज्ञानं विना कायिकादौ न तव्द्यवहार इति स एव वाच्योऽन्यत्र लक्षणेति, तन्न। कायिकादिव्यापारविशेषमनवगम्य बुद्धिविशेषपूर्वकत्वाज्ञानात्।
स्वीकृतवेदप्रमाणभावः शिष्टः। आचारे च वेदानिषिद्धत्वमविगीतत्वं विशेषणं देयम्। यद्वा अलौकिकविषयशिष्टाचारत्वमेव हेतुः। शिष्टाचारत्वं च भ्रमाजन्याचारत्वम्।
आस्तिकनास्तिकयोरगम्यागमनचैत्यवन्दनादावाचारजनकज्ञानस्य भ्रमत्वात् बलवदनिष्टानुबन्धित्वादिष्टासाधनत्वाच्च। लोके च पाखण्डव्यावृत्तशिष्टव्यवहारो वेदप्रामाण्याभ्युपगमनिबन्धनः। तैर्थिकत्वेऽपि शिष्टाशिष्टव्यवहारो वेदनिषिद्धाकर्तृत्वतत्कर्तृत्वनिन्धनः। यद्वा वेदप्रामाण्याभ्युपगन्तृत्वे सति यो यदा वेदनिषिद्धाकर्ता स तदा शिष्टः तत्कर्ता त्वशिष्टः। अत एव वेदनिषिद्धाकर्तृत्वेऽपि बौद्धो न शिष्टः। पापजनकत्वज्ञानं विना वेदनिषिद्धकर्तृत्वं यस्य नास्ति स शिष्ट इति तु न। तैर्थिकस्यापि कस्यचित् पापजनकत्वज्ञानं विना वेदनिषिद्धकर्तृत्वात्। यत्तु रागद्वेषहीनः शिष्टः। स च सर्वज्ञत्वान्मन्वादिरेव। अविगीततदाचारादेव वेदानुमानमिति, तन्न । एवं हि मन्वाद्याचारादर्शिनामाधुनिकानां मङ्गले प्रवृत्तिर्न स्यात्। आधुनिकानामाचारेण मन्वाद्याचारमनुमाय तेन च वेदमनुमाय बालः प्रवर्तत इति चेत्, तर्हि यादृशाचारेण मन्वाद्याचारानुमानं स एव वेदानुमापकोऽस्तु, किमनुमितानुमानेन। आधुनिकानामपि शिष्टत्वेन व्यवह्रियमाणत्वाच्च। तथा च स्मृतिः-
"यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः।
श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते॥"
सर्वज्ञस्य मङ्गलाचारे मानाभावाच्च। मन्वादिप्रणीतस्मृतौ मङ्गलं दृश्यत इति चेत् , तन्न। स्मृतिकर्तुरसर्वज्ञत्वेऽपि वेदादर्थं प्रतीत्य स्मृतिप्रणयनसंभवात्।
यत्तु शिष्टाचारत्वेन कर्तव्यतैवानुमीयतां किं वेदेनेति, तत्र वक्ष्यामः।
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे मङ्गलवादः ॥
प्रामाण्यवादः
अथ प्रामाण्यवादः
तत्र ज्ञप्तिवादः
अथ जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्षुरष्टादशविद्यास्थानेष्वभ्यर्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनाय। तत्र प्रेक्षावत्प्रवृत्त्यर्थं "प्रमाणादीनां तत्त्वज्ञानान्निःश्रेयसाधिगमः"( न्या.सू.1-1-1) इत्यादावसूत्रयत् । तेष्वपि प्रमाणाधीना सर्वेषां व्यवस्थितिरिति प्रमाणतत्त्वमत्र विविच्यते ।
ननु प्रमाणादीनां तत्त्वं प्रतिपादयच्छास्त्रं परम्परया निःश्रेयसेन संबध्यत इति न युक्तम् , प्रमाणतत्त्वावधारणस्याशक्यत्वात् । तद्धि प्रमातत्त्वावधारणाधीनम्। तच्च
स्वतः परतो वा न संभवति , वक्ष्यमाणदूषणगणग्रासात् ।
अथ किं प्रामाण्यज्ञानेन ? प्रवृत्तिमात्रे तस्य व्यभिचारात् । बहुवित्तव्ययायाससाध्ये प्रवृत्तिश्चावश्यकार्थनिश्चयादेव। न च यस्य संशयव्यतिरेकनिश्चयौ
प्रवृत्तिप्रतिबन्धकौ तन्निश्चयस्तद्धेतुः, अनुमितौ व्याप्तेरिवेति वाच्यम् । तत्संदेहे सत्यर्थसंदेहेनार्थानिश्चयादेवाप्रवृत्तेस्तत्र तयोरप्रतिबन्धकत्वादिति चेत् ,न।
प्रामाण्यसंशयानन्तरमिदमित्थमेवेत्यवधारणस्य निष्कम्पप्रवृत्त्यङ्गस्य प्रामाण्यनिश्चयाधीनत्वात् ।
ननु स्वत एवास्तु तन्निरूपणम् । तथा हि तत्र विप्रतिपत्तयः - ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा।
अथ द्वितीया विप्रतिपत्तिः
तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यं न वा । परतः पक्षे ज्ञात एव ज्ञाने प्रामाण्यग्रहः। स्वतस्त्वे प्रामाण्यवत एव ज्ञानस्य ग्रहात् ।
अथ तृतीया विप्रतिपत्तिः
स्वाश्रयग्राहकेण गृह्यत एव न वा ।
अथ चतुर्थी विप्रतिपत्तिः
स्वाश्रयेण गृह्यत एव न वेति प्रत्येकमेव वा । यत्तु योगजधर्मसामान्यलक्षणप्रत्यासत्त्या स्वाश्रयप्रामाण्यं तेनैव गृह्यत इत्यंशतः सिद्धसाधनम्, अतो योगजधर्माद्यजन्यत्वं
विशेषणमिति। तन्न। परं प्रत्यसिद्धेः । प्रामाण्यमात्रपक्षत्वे प्रामाण्यं स्वाश्रयेण ग्रह्यत एवेत्युद्देश्यप्रतीतेरसिद्धेश्च नांशतः सिद्धसाधनम्।
अथ पञ्चमी विप्रतिपत्तिः
यद्वा घटोऽयमिति ज्ञानप्रामाण्यम् एतज्ज्ञानग्राह्यं न वा , एतज्ज्ञानग्राहकमात्रग्राह्यं न वेति ।
अथ पूर्वपक्षः
तत्र यद्यपि विशेष्यावृत्त्यप्रकारकत्वमगृहीतग्राहित्वं वा, सर्वधीयथार्थत्वपक्षेऽनुभवत्वजातेरभावेन स्मरणान्यज्ञानत्वं विशिष्टज्ञानत्वं वा प्रामाण्यं स्वस्य न तेनैव न
वा अनुव्यवसायेन ग्रहणयोग्यम्, विशेष्यावृत्त्यप्रकारकत्वादेर्विशेषणस्य प्रागनुपस्थितौ तद्वैशिष्ट्यस्य ज्ञातुमशक्यत्वात्। नापि ज्ञानातीन्द्रियत्वे ज्ञानानुमित्या तद् गृह्यते,
ज्ञानमात्रलिङ्गस्य प्राकट्यादेस्तद्व्यभिचारात् । नापि प्रमाहितज्ञातताविशेषात् , तस्य प्रथमं दुर्निरूपत्वाच्च। अन्यथा अप्रमाहितज्ञाततया अप्रामाण्यस्यापि स्वतो
ग्रहापत्तिरिति।
तथापि तद्वति तत्प्रकारकज्ञानत्वं तद्वति तद्वैशिष्ट्यज्ञानत्वं वा प्रामाण्यम्। तन्निश्चयादेव निष्कम्पव्यवहारात् , लाघवात् । नान्यत् गौरवात् । तच्च ज्ञानग्राहकसामग्रीग्राह्यमेव॥
तथा हि विशेष्ये तद्धर्मवत्त्वं तद्धर्मप्रकारकत्वं च व्यवसायस्यानुव्यवसायेनानुमित्या स्वप्रकाशेन वा गृह्यते । विषयनिरूप्यं हि ज्ञानम् । अतः ज्ञानवित्तिवेद्यो विषय इति
व्यवसाये भासमाने धर्मधर्मिवत्तद्वैशिष्ट्यमपि विषयः। व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् ।
सम्बन्धितावच्छेदकरूपवत्तया ज्ञायमाने सम्बन्धिनि ससम्बन्धिकपदार्थनिरूपणमित्यनुव्यवसायस्य रजतत्वावच्छिन्नत्वेन पुरोवर्तिविषयत्वाच्च । अन्यथा पुरोवर्तिनं
रजतं च जानामीति तदाकारः स्यात्, न तु रजतत्वेन पुरोवर्तिनमिति। अत एवाप्रमापि प्रमेत्येव ग्रह्यते । अनुव्यवसायस्य भ्रमविषयवैशिष्ट्यविषयत्वात् । न च न प्रामाण्यं
प्रथमतो ज्ञातमिति न तदारोपः स्यादिति वाच्यम् । प्रामाण्यस्य ज्ञानग्राहकसामग्रीग्राह्यत्वेन ज्ञानवित्तिवेद्यत्वात् । अभावप्रतीतौ प्रतियोगित्वाभावत्वयोरिव।
तदभाववति तत्प्रकारकज्ञानत्वमप्रामाण्यं परतो ज्ञायते। तदभाववत्त्वस्य भ्रमानुल्लिखितत्वेनानुव्यवसायाविषयत्वात् । न चैवमनुव्यवसायस्य यावद्व्यवसायविषयविषयकत्वे
भ्रान्तभ्रान्तिज्ञसंकर इति वाच्यम् । बाधानवतारदशायां तस्येष्टत्वात् । तदवतारे तस्यैव प्रतिबन्धकत्वात् उपनायकभ्रान्तेरभावाच्च।
अत एवान्यभ्रान्तिज्ञस्य न भ्रमः । अथ तद्वत्त्वं न धर्मधर्मिवैशिष्ट्यमात्रम् , किं तु तस्य विशेषणताविशेषः। स च व्यवसाये भासते नानुव्यवसाये, मनसो
बहिरस्वातन्त्र्यादिति चेत् , न । व्यवसायोपनीतत्वेन विशेषणविशेष्ययोरिव विशेषणताविशेषस्यापि तद्विषयत्वात् , विशेषणताया निराकरिष्यमाणत्वाच्च।
एतेनास्वप्रकाशे न स्वतः प्रामाण्यग्रहः, धर्म्यग्रहे तद्धर्माग्रहात् । शब्दगन्धवद्योग्यत्वात्तद्ग्रहेऽपि ज्ञानं प्रमाणमिति धीर्न स्यात् । स्वप्रकाशेऽपि स्वमात्रसाक्षिणः
स्वधर्मग्रहेऽसामर्थ्यात्। सामर्थ्ये वा अप्रामाण्यमपि गृह्णीयात् । परप्रकाशे लिङ्गेन मनसा वा जायमानं ज्ञानं न भ्रमव्यावृत्तं प्रामाण्यं गृह्णीयात् , व्यभिचारात् । न च
यत्र यदस्ति तत्र तद्गृह्यते, अप्रामाण्यस्यापि स्वतो ग्रहापत्तेः, अनुव्यवसायस्यानुमितेर्वा विषयाजन्यत्वाच्चेति निरस्तम् ।
तद्वति तत्प्रकारकज्ञानत्वं तद्वति तद्वैशिष्ट्यज्ञानत्वं वा प्रामाण्यं व्यवसायस्येति स्वेनानुव्यवसायेनानुमित्या वा तद्ग्रहात् , तद्विषयत्वस्य तत्प्रकारकत्वस्य च
ज्ञानग्राहकसामग्रीग्राह्यत्वात् । यदि च प्रामाण्यं परतो ज्ञायेत, तदा प्रामाण्यज्ञानेऽपि तदनुमापकलिङ्गपक्षव्याप्त्यादिज्ञानेषु च स्वविषयनिश्चयार्थं प्रामाण्यस्य परतो ज्ञेयत्वे
फलमुखी कारणमुखी चानवस्था स्यादिति प्रामाण्यं न ज्ञायेतैवेति परिशेषादपि स्वतः प्रामाण्यग्रहः॥
इति पूर्व पक्षः
अथ सिद्धान्तः
सिद्धान्तस्तु - प्रामाण्यस्य स्वतो ग्रहेऽनभ्यासदशोत्पन्नज्ञाने तत्संशयो न स्यात्, ज्ञानग्रहे प्रामाण्यनिश्चयात् । अनिश्चये वा न स्वतः प्रामाण्यग्रहः । ज्ञानाग्रहे
धर्मिज्ञानाभावान्न संशयः ।
ननु कोटिस्मरणादिना संशयपूर्वक्षणे व्यवसायविनाशान्न तद्विशेष्यको मानसः संशय इति चेत् , न । ज्ञानोपनीते व्यवसाये प्रामाण्यसंशयात् ।
ननु धर्मिज्ञानं न संशयहेतुः कोटिज्ञानविशेषादर्शनधर्मीन्द्रियसंनिकर्षैः प्रामाण्यसंशयरूप एव ज्ञानग्रह उत्पद्यत इति चेत् , न। ज्ञानातीन्द्रियत्वेन तज्ज्ञानं विना
तद्धर्मिकमानससंशयानुपपत्तेः। लिङ्गं च न संशयजनकम् , तस्य निश्चायकत्वात् ।
ज्ञानस्य मानसत्वे च प्रामाण्यज्ञानवत् तत्सामग्र्यपि संशयप्रतिबन्धिका, तन्निश्चायकत्वात् । अन्यथा विशेषदर्शनकालेऽपि संशयापत्ते।
अथ धर्मिणि विशेषादर्शनदशायां एककोटिस्मरणे तदारोपः कोटिद्वयस्मरणे संशय इति निश्चयसामग्रीतः संशयसामग्री बलवतीति कोटिद्वयस्मरणे संशय एव स्यात्
न तु निश्चय इति चेत्,
न । विरुद्धोभयारोपसामग्रीद्वयासमाजादुभयारोप एक एव भवति । स एव संशयः । न त्वेकारोपसामग्य्रा अपरारोपसामग्रीप्रतिबन्धः, अविरोधात् । न
चोभयारोपसामग्र्या एकनिश्चयसामग्रीप्रतिबन्ध इति वाच्यम्। प्रत्येकारोपसामग्र्यतिरिक्तायास्तस्या अभावात् । न च सामग्रीद्वयात्कार्यद्वयम् । समूहालम्बनवदुपपत्तेः ।
तस्मात् प्रामाण्यनिश्चयसामग्रीसत्त्वान्न तत्संशयः स्यात् । धर्मिज्ञानं च संशयहेतुः । अन्यथा संशये धर्मिनियमः कोट्युत्कटत्वं च न स्यात् ।
अथ पीतः शङ्खः, आदर्शे मुखमित्यादिभ्रमो विशेषदर्शनेऽपि यथा दोषान्तरात् , तथा निश्चितेऽपि प्रामाण्ये दोषान्तरात्तत्संशय इति चेत्, न । तद्वदेवात्रापि
प्रवृत्तिप्रसङ्गात् । (साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनं विरोधि)। साक्षात्कारिभ्रमे साक्षात्कार्येव विपरीतनिश्चयः प्रतिबन्धकः, न त्वानुमानिकादिः । संशये तु
निश्चयसामान्यम्। अनुमानादिना तन्निश्चये कदाचिदपि तस्यानुत्पादात् , दिङ्मोेहादौ तथा दर्शनात् । तच्च न, पित्तादिना प्रतिबन्धात् । न च जात्यैव कश्चिद्दोषोऽस्ति।
न च प्रामाण्यसंशयाद्विषयसंशयवत् प्रामाण्यज्ञाने प्रामाण्यसंशयात् प्रामाण्यसंशय इति वाच्यम् । प्रामाण्यज्ञानेऽपि स्वतः प्रामाण्यग्रहे तत्संशयानुपपत्तेः ।
ननु ज्ञानमात्रं न विरोधिबुद्धिनिवर्तकं, भ्रमोत्तरं बाधकज्ञानोदयात् , किं त्वनन्यथासिद्धम् । अत एव तेन विनापि तज्ज्ञानं सम्भवतीति अन्यथासिद्धतया शङ्कितं
तन्निश्चयं परिभूय ज्ञानविषयत्वाद्विषये यथा संशयस्तथा प्रामाण्ये तन्निश्चयस्यान्यथासिद्धिशङ्कया तं परिभूय भवति संशयः। न च व्यवसायस्य ज्ञानत्वे घटविषयकत्वे
च यथा नुव्यवसायविषयत्वान्न संशयस्तथा प्रामाण्येऽपि न स्यात् , अनुव्यवसायस्य प्रमात्वनियमादिति वाच्यम्। अज्ञाने अविषये च ज्ञानत्वविषयत्वयोरनुव्यवसायेनाग्रहणनियमात्
तद्विषयत्वमन्न्यथासिद्धं प्रामाण्यविषयत्वं च तेन विनापि संभवतीति तत्र संशय इति चेत् ,
मैवम् । भ्रमत्वमन्यथासिद्धत्वम्। ततश्च प्रामाण्यनिश्चये भ्रमत्वसंशयेन तद्विषये प्रामाण्यसंशय इति फलितोऽर्थः । भ्रमत्वसंशयश्च तज्ज्ञानाज्ञानाभ्यां न
सम्भवतीत्युक्तत्वात्। एवमन्यत्रापि भ्रमत्वसंशयान्न विषये संशयः, स्वतःप्रामाण्यग्रहे भ्रमत्वसंशयाभावात्।
न च वाच्यं प्रामाण्यसंशयान्न विषये संशयः, मानाभावात् । ज्ञानविषयत्वात्समानधर्मादेव तदुपपत्तेः । न चैवं सर्वत्र विषयसंशये तन्निश्चयोच्छेदः, प्रामाण्यसंशयेऽपि
तुल्यत्वादिति । तस्यासार्वत्रिकत्वात् । भ्रमत्वसंशयं विना निश्चितविषये संशयानुत्पत्तेरानुभविकत्वाच्च।
अथ तद्वति तत्प्रकारकत्वं प्रामाण्यम् , तच्च ज्ञानग्राहकेण गृहीतमेवेति न तत्संशयः । न चास्मिन्निश्चितेऽपि प्रामाण्यसंशयात् न तत्प्रामाण्यमिति वाच्यम् ।
एतन्निश्चयादेव निष्कम्पव्यवहारादिति चेत् , अस्तु तावदिदं प्रामाण्यम् , तथाप्यनुव्यवसायानन्तरं व्यवसायस्य प्रामाण्ये अर्थस्य तद्वत्त्वे च संशयस्यानुभवसिद्धत्वान्नार्थतद्वत्त्वं
तस्य विषयः।
ननु व्यवसायस्य इदंत्वरजतत्वविशिष्टेदंविषयत्वेऽनुव्यवसाय एव मानम्। तथा च यावद्व्यवसायोल्लिखितप्रकारविशिष्ट एव धर्मी अनुव्यवसाये भासते ।
अन्यथा विषयांशे तस्य निर्विकल्पकत्वे इदं रजतं जानामीति तदाकारो न स्यात् । अतो धर्मिणीदंत्वरजतत्ववैशिष्ट्यमनुव्यवसायेन गृहीतमिति धर्मिणि
स्वतःप्रामाण्यग्रहवद्रजतत्ववैशिष्ट्येपि स्वतःप्रामाण्यज्ञानमवर्जनीयम् अत एव धर्म्यंशे न कदापि प्रामाण्यसंशय इति चेत् ,
मैवम् - इदं रजतं च जानमीति नानुव्यवसायः, बहिर्विशेष्यके मनसोऽस्वातन्त्र्यात्।
किं त्विदमिदत्वेन रजतत्वेन जानामीति। तत्रेदत्वरजतत्वे प्रकारत्वेन भासेते। तत्प्रकारकज्ञानवत्त्वं चात्मनि भासते। अन्यथा प्रकारवाचितृतीयार्थासंभवः।
रजतत्ववैशिष्ट्यस्य तदर्थत्वे व्यवसायेपि तृतीयार्थोल्लेखापत्तिः।
तथा च धर्मिणीदन्त्वरजतत्वप्रकारज्ञानविषयत्वे तादृशज्ञानवत्त्वे चात्मनोऽनुव्यवसाय एव मानमिति न विषये तस्य निर्विकल्पकत्वम् । अत इदन्त्वरजतत्ववैशिष्ट्यं
पुरोवर्तिनि नानुव्यवसायविषय इति न स्वतः प्रामाण्यग्रहः । तस्मादनभ्यासदशापन्नज्ञानप्रामाण्यं परतो ज्ञायते सांशयिकत्वादप्रामाण्यवदित्याचार्याः ।
ननु स्वग्राह्यत्वेऽपि कदाचित्परग्राह्यत्वात् स्वस्याप्यन्यापेक्षया परत्वात् भट्टमते च परग्राह्यत्वात्सिद्धसाधनम् ।
न च ग्राह्यप्रामाण्यापेक्षया परत्वम् , ग्राहकस्यापि ग्राह्यप्रामाण्यत्वेन तदपेक्षया परत्वाभावात् , स्वग्राह्यप्रामाण्यापेक्षया परत्वे अप्रामाण्यप्रसङ्गात्।
उच्यते । अनभ्यासदशापन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह्यम् स्वाश्रयातिरिक्तग्राह्यं वा ।
स्वाश्रये सत्यपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वादप्रामाण्यसंशयाजन्यसंशयविषयत्वाद्वा अप्रामाण्यवत् । अर्थे निश्चितेऽपि न तन्निश्चयानन्तरतृतीयक्षणे
अर्थसंशयो न वा प्रामाण्यसंशयं विनेति नार्थे व्यभिचारः । विवादपदं न यावत्स्वाश्रयग्राहकग्राह्यम् स्वाश्रयनिश्चये सति तत्तदुत्तरतृतीयक्षणे अप्रामाण्यसंशयं विना वा
सन्दिह्यमानत्वादप्रामाण्यवत् ।
यद्वा अनभ्यासदशापन्नैतज्ज्ञानप्रामाण्यम् एतत्प्रामाण्यसंशयपूर्वकालीनैतद्ज्ञाननिश्चयाविषये एतज्ज्ञाननिश्चयानन्तरं संदिह्यमानत्वात् अप्रामाण्यवत् ।
न च स्वपदस्य प्रामाण्यमात्रपरत्वात् तदाश्रयाग्राह्यत्वेन बाधः । स्वपदस्य सम्बन्धिपरत्वेन समभिव्याहृतपरत्वात् । अन्यथा स्वस्य परत्वात् परस्य च स्वत्त्वात्
तदेतत्त्वस्य तदेतदन्यत्वस्य च स्वपरसाधारणत्वात् स्वतः बाधात् परिशेषणन्यथाग्राह्यत्वं परतो ग्राह्यत्वमिति कश्चित् । प्रथमं च प्रामाण्यज्ञानं व्यतिरेकिणा ।
ननु प्रामाण्यप्रसिद्धिं विना व्याप्त्यग्रहात् कथमनुमानम् । अथ व्याघातदण्डभयेन प्रमातद्विषयसिद्धौ तद्दृष्टान्तेन ज्ञेयत्वादिना वह्नेः प्रमाविषयत्वमनुमेयम्।
ततश्च सामान्यतस्तत्सिद्धौ न साध्याप्रसिद्धिः । विशिष्यानिर्णयान्नान्वयित्वासाधारण्ये ।
न च प्रामाण्यं नानुगतम् किं तु प्रतिज्ञानं विषय प्रकारभेदात् भिन्नम् तथा च वह्निज्ञानस्य वह्नयवृत्तिप्रकारानवच्छिन्नत्वादिकं साध्यं तच्चाप्रसिद्धमिति वाच्यम्।
वह्निज्ञानस्य विशेष्यावृत्तिप्रकारानवच्छिन्नत्वादिकं साध्यमानं पक्षधर्मताबलेन वह्निविषयकप्रमात्वे पर्यवस्यतीति चेत् , तर्हि प्रथमं कस्यापि स्वार्थ प्रामाण्यानुमानं
न स्यात् प्रामाण्यनिषेधरुपस्य परकीयव्याघातस्य तदा अनुपस्थितेः । स्वयं प्रामाण्यनिषेधस्य तद्धीपूर्वकत्वात् प्रामाण्यमपरिज्ञाय प्रामाण्यनिषेधेन परकीयव्याघातस्याज्ञानाच्च।
प्रवृत्तिसंवादविसंवादाभ्यां तद्धेतुज्ञानवैचित्र्यानुमानेऽपि यथोक्तरूपप्रामाण्यस्य विशिष्याप्रतीतेरिति ।
उच्यते । प्राग्भवीयसंस्काराद्विशेष्यावृत्त्यप्रकारकत्वं तद्वति तत्प्रकारकज्ञानत्वं वा प्रामाण्यमात्रं स्मृतं वह्निज्ञानादौ साध्यमानं सर्वनाममहिम्ना पक्षधर्मताबलाद्वह्निज्ञानस्य
विशेष्यावृत्त्यप्रकारकत्वादौ पर्यवस्यति । स्वतः प्रामाण्यनिषेधे प्राथमिकप्रामाण्यज्ञानस्यान्यथोपपादयितुमशक्यत्वादिति संप्रदायविदः ।
वयं तु ब्रूमः- प्रथममप्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यम् । तत एव निष्कम्पप्रवृत्तेरुपपत्तेः । तदेव वा सिध्यत् पक्षधर्मताबलेन तद्वति
तत्प्रकारकत्वादिकमादाय सिध्यति । तदनन्तरमर्थाद्वा सिध्यतीति वक्ष्यते । तथा हि - अयं वह्नित्वेनानुभवः - - न वह्नित्वाभाववति वह्नित्वप्रकारकः, अवह्निवृत्त्यप्रकारको
न, विशेष्यावृत्तिप्रकारको न, वह्नित्वप्रकारकत्वे सति वह्न्यविशेष्यको न, वह्नित्वव्यधिकरणप्रकारावच्छिन्नो न, वह्न्यवृत्तिप्रकारको न वा - - दाहसमर्थविषयकप्रयत्नजनकत्वे
सति वह्नित्वप्रकारकनिश्चयत्वात्, दाहसमर्थविशेष्यकवह्नित्वप्रकारकनिश्चयत्वाद्वा - - यन्नैवं तत्रैवं यथा वह्न्यप्रमा । तत्र बाधानन्तरं स्मृत्युपनीते भ्रमे वह्नित्वाभाववति
वह्नित्वेन मम ज्ञानं वृत्तमित्यप्रामाण्यं मनसैव परिच्छिद्यते मानान्तरेण वेति सर्वसिद्धम् ।
एवं वह्न्यप्रमायां वह्नित्वाभाववति वह्नित्वप्रकारकत्वादिसमर्थप्रवृत्तिजनकत्वाभावयोर्व्याप्तिग्रहेऽप्रामाण्यव्यापकहेत्वभावाभावरूपाद्धेतोरप्रामाण्याभावरूपं साध्यं
सिध्यति। यद्व्यापकतया हेत्वभावो गृहीतस्तदभाव एव हेतुना साध्यते । यत्र त्वभावस्य व्यापकता हेत्वभावस्य ज्ञायते साध्यप्रसिद्धिरङ्गम् , तां विना तदज्ञानात् । यत्र
तु भावव्यापकता हेत्वभावस्य तत्र न तदङ्गम् । तेन विनापि व्यतिरेकव्याप्तेर्ग्रहात् । अत एवेतरव्यापकता आकाशत्वाभावस्य गृहीतेत्याकाशत्वेनाप्रसिद्ध एवेतरान्योन्याभावः
सिध्यति ।
विशेषणज्ञानं विना कथं प्रामाण्यविशिष्टानुमितिरिति चेत् , प्रथमं न कथंचित् । ज्ञाने प्रामाण्यमित्यानुमित्यनन्तरं तेनैव हेतुना तत्रैव प्रामाण्यविशिष्टानुमितिः,
अभावविशेष्यकप्रतीत्यनन्तरमभाववद्भूतलमिति ज्ञानवत् । एवं चेदं वह्नित्वप्रकारकज्ञानं तद्वति तदभाववति वेति संशयानन्तरं तदभाववति तत्प्रकारकत्वव्यतिरेकः
सिध्यन् तत्प्रकारकतामादाय सिध्यति । तृतीयप्रकाराभावेन तेन विना साध्यस्योपसंहर्तुमशक्यत्वात् , ज्ञाननित्यत्ववत् ।
यद्वा इदं वह्नित्वप्रकारकज्ञानं वह्नित्ववद्विषयकं, वह्नित्वाभाववदविषयकत्वे सति सविषयकत्वात् , यन्नैवं तन्नैवं यथा वह्न्यप्रमेति व्यतिरेक्यन्तरात्तत्सिद्धिः ।
अतिरिक्तविषयतापक्षे अयं वह्नित्वेनानुभवोऽवह्निवृत्तिवह्नित्वप्रकारकविषयताको न, वह्नित्वासमानाधिकरणवह्नित्वप्रकारकविषयताको न, विषयताश्रयावृत्तिप्रकारको
न वेति साध्यम् । वह्निवृत्तिवह्नित्वप्रकारकविषयताकत्वं, विषयताश्रयवृत्तिप्रकारकत्वं वा अर्थात् सिध्यति, न तु प्रथमं, साध्याप्रसिद्धेः । वह्निभ्रमे च विषयताश्रयो
न वह्निः, विषयताया विशेष्यवृत्तित्वादिति भ्रमत्वेन न सिद्धसाधनम् ।
अन्ये तु वह्निभ्रमे या विशेषणवृत्तिर्विषयता सा विशेष्यवृत्तिविषयताया अभिन्नेति न सा वह्नित्वासमानाधिकरणधर्मानवच्छिन्नेति न सिद्धसाधनमिति। न च
मणिज्ञानस्य प्रामाण्यानुमाने मणिप्रभायां मणिभ्रमेण प्रवृत्तस्य मणिप्राप्तौ मणिगोचरप्रयत्नजनकमणित्वप्रकारकनिश्चयत्वमनैकान्तिकमिति वाच्यम् । मणिप्रभाविषयकज्ञानेन
भिन्नविषयतया मणिगोचरप्रयत्नानुत्पादात् । मणिप्राप्तिस्तु नान्तरीयकत्वात् । ज्ञानप्रयत्नयोरसमानकालत्वेऽप्यनुभवस्मरणयोरिव मनसा कार्यकारणभावग्रह इति नासिद्धिः।
अभावसाध्यके च निर्विकल्पकस्य प्रथमं सपक्षत्वेनानिश्चयान्नासाधारण्यम् । तथा इयं पृथिवीत्यनुभवः - - पृथिवीत्वाभाववति पृथिवीत्वप्रकारको न, अपृथिवीवृत्तिप्रकारको
न, विशेष्यावृत्तिप्रकारको न, पृथिवीत्वप्रकारकत्वे सति पृथिव्यविशेष्यको न, पृथिवीत्वव्यधिकरणप्रकारावच्छिन्नो न, पृथिव्यवृत्तिप्रकारको न वा - -गन्धवद्विशेष्यकपृथिवीत्वप्रकारकनिश्चयत्वादिति व्यतिरेकी । पृथिवीत्वभ्रमः पृथिवीत्वाभाववति पृथिवीत्वप्रकारक इति न भ्रमत्वेन सिद्धसाधनम् , न वा गन्धवद्विशेष्यक
इति न व्यभिचारः । पृथिवीत्ववति पृथिवीत्वप्रकारकत्वादिकमर्र्थात्सिध्यति । विषयतापक्षे अयं पृथिवीत्वेनानुभवः - - अपृथिवीवृत्तिपृथिवीत्वप्रकारकविषयताको न,
पृथिव्यवृत्तिपृथिवीत्वप्रकारकविषयताको न, पृथिवीत्वासमानाधिकरणपृथिवीत्वप्रकारकविषयताको न, विषयताश्रयावृत्तिप्रकारको न वेति साध्यम् ।
पृथिवीत्वसमानाधिकरणपृथिवीत्वप्रकारकविषयताकत्वादिकमर्थात् सिध्यति।
अन्ये तु पृथिवीत्वासमानाधिकरणप्रकारावच्छिन्नविषयताकत्वाभावः साध्यः, गन्धासमानाधिकरणाप्रकारकगन्धसमानाधिकरणप्रकारकविषयताप्रतियोगिज्ञानत्वात्।
तेन संशयव्यवच्छेदः। निश्चयत्वं वा तद्विशेषणमित्याहुः ।
शीता पृथिवीत्यनुभवः पृथिव्यंशे प्रमैव। प्रमाभ्रमरूपे च समूहालम्बने न व्यभिचारः। अंशे तस्यापि प्रमात्वात् , विशेष्यभेदेन विषयताभेदाच्च । न च प्रकारभेदेन
विषयताभेदः, मानाभावात्।
यत्तु - - इयं पृथिवीत्यनुभवः - - पृथिवीत्वसमानाधिकरणधर्मावच्छिन्नपृथिवीविशेष्यकविषयताकः, पृथिवीत्वव्यधिकरणधर्मानवच्छिन्नपृथिवीविशेष्यकविषयताकः,
पृथिव्यवृत्ति धर्मानवच्छिन्नपृथिवीवृत्तिविषयताको वा- -गन्धासमानाधिकरणधर्माप्रकारकविषयताप्रतियोगिज्ञानत्वात् , अगन्धवदवृत्तिपृथिवीत्वप्रकारकविषयताकत्वात् ,
गन्धसमानाधिकरणविषयताप्रतियो गिज्ञानत्वाद्वेति।
तन्न । साध्याप्रसिद्धेः । किं त्वर्थादेव तत्सिध्यति।
एवं यत्प्रकारव्याप्यतया यद्गन्धस्नेहसमर्थप्रवृत्तिजनकत्वकरचरणादिकमवगतं तद्वति तत्प्रकारकज्ञानत्वमेव प्रामाण्ये लिङ्गम् ।
ननु वह्निज्ञानस्य दाहसमर्थविषयत्वं न दाहसमर्थोऽयमिति व्यवसायगम्यम् , ज्ञानविषयतयोस्तदविषयत्वात् । नापि तदनुव्यवसायगम्यम् , पुरोवर्तिदाहसामर्थ्यस्य
तदगोचरत्वात् । व्यवसायोपनीतदाहसामर्थ्यस्य च भाने तदसामर्र्थ्यात् । अन्यथा व्यवसायोपनीतस्य पुरोवर्तिनि वह्नित्वस्यानुव्यवसायविषयत्वे स्वतःप्रामाण्यग्रहापत्तेः ।
एवं पृथिवीजलज्ञानयोर्गन्धस्नेेहवद्विषयकत्वग्रहोऽप्यनुपपन्न इति।
उच्यते । वह्नित्वप्रकारकज्ञानानुव्यवसाये सति तत्र विषये दाहसामर्थ्यज्ञानानन्तरं तत्स्मृत्युपनीते वह्निव्यवसाये स्मृत्युपनीतदाहसमर्थविषयकत्वम् । एवं
जलपृथिवीज्ञानयोः स्मृत्युपनीतयोः ज्ञानोपनीतस्नेहगन्धवद्विषयकत्वं मनसा परिच्छिद्यते । गन्धादिमत्येव मम पृथिवीत्वाद्यनुभव इति गन्धादिमत्त्वपरिच्छेदानन्तरमनुभवात्।
स्मृत्युपनीते धूमादौ व्याप्तिपरिच्छेदवत् , चक्षुषा चन्दने सौरभज्ञानवच्च।
तर्हि पृथिवीत्वज्ञाने गन्धवद्विशेष्यकत्वात् चक्षुषा गन्धवति पृथिवीत्वोपनयानन्तरमियं पृथिवीति पृथिवीत्वप्रकारकानुभवे उपनीते पृथिवीत्ववति पृथिवीत्वप्रकारकत्वम्।
तथा तत्रैव ज्ञाने घटत्वप्रकारकताविरहवत् पृथिव्यवृत्तिप्रकाराभाववत्त्वं, विशेष्यावृत्तिप्रकाराभाववत्त्वं वा प्रामाण्यं मनसैव परिच्छिद्यतामिति स्वत एव प्रामाण्यग्रह इति
चेत्, न। ज्ञानान्तरोपस्थापितज्ञानवृत्तिप्रामाण्यग्रहे परतस्त्वानपायात्।
यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वम् , यावत्स्वाश्रयग्राहकग्राह्यत्वम् , तज्ज्ञानविषयकजन्यज्ञानाजन्यजन्यज्ञानग्राह्यत्वं वा स्वतस्त्वम् । तदन्यथाग्राह्यत्वं तु परतस्त्वम्।
मनसा चैवं प्रामाण्यग्रहस्याभ्युपगमे तज्ज्ञानविषयकजन्यज्ञानजन्यज्ञानग्राह्यत्वान्न परतस्त्वहानिः। व्यतिरेक्यनन्तरं तज्जातीयत्वेनान्वयिना ग्राह्यत्वान्न प्रामाण्यानुमानम् ।
यथा इदं शरीरज्ञानं प्रमा करचरणवति शरीरज्ञानत्वात् स्वशरीरज्ञानवत्। न च करचरणान्तरवति करचरणान्तरवत्त्वज्ञाने व्यभिचारः, शरीरांशे तस्य प्रमात्वात् ।
एतेन करचरणवति शरीरज्ञानत्वादित्यत्र करचरणवत्त्वं नोपलक्षणम् , व्यावृत्तोपलक्ष्याभावात् । न च विषयता ज्ञानविशेषणम्, करचरणवत्त्वप्रकारकशरीरज्ञानत्वस्य
व्यभिचारात् , शरीरमिति ज्ञाने तदसिद्धेश्च । विषयविशेषणत्वे करचरणवद्विषयकशरीरज्ञानत्वस्य व्यभिचारात्। शरीरभ्रमस्यापि वस्तुतः करादिमद्विषयकत्वात् । नापि
करचरणादिशून्ये यच्छरीरत्वेन ज्ञानं तदन्यत्वे सतीति विवक्षितम् । शून्य इत्यत्र विषयत्वं सप्तम्यर्थ इति करचरणशून्यविषयकशरीज्ञानान्यशरीरज्ञानत्वादित्यर्थः । तथा
चासिद्धिः। शरीरज्ञानस्य तच्छून्यशरीरत्वादिविषयकत्वनियमात् । न वा करचरणशून्ये यच्छरीरत्वेन ज्ञानं न भवतीति विवक्षितम् । तृतीयार्थस्य विषयत्वे उक्तदोषात्
अन्यस्यासम्भवादिति निरस्तम् ।
करचरणवद्विशेष्यकशरीरत्वप्रकारकज्ञानत्वस्य हेतुत्वात् । शरीरभ्रमे च करचरणवतः शरीरस्य विशेषणत्वात् ।
विषयतापक्षे करचरणादिशून्यनिष्ठशरीरत्वप्रकारकविषयताप्रतियोगित्वशून्यत्वे सति शरीरज्ञानत्वादिति हेतुः ।
ननु नान्यगृहीतप्रामाण्यं ज्ञानं परप्रामाण्यनिश्चयरूपम् , अनवस्थानात् । नापि स्वज्ञायमानप्रामाण्यम्, स्वतःप्रामाण्यग्रहापत्तेः। अतोऽगृहीतप्रामाण्यमेव ज्ञानं
परप्रामाण्यनिश्चयरूपमास्थेयम् । तथा च व्यवसायोऽप्यगृहीतप्रामाण्य एव स्वविषयं निश्चाययतु । किं विषयनिश्चयार्र्थं तत्प्रामाण्यनिश्चयेन । अथ व्यवसायस्याप्रामाण्यदर्शनान्न तन्मात्रादर्थनिश्चयः । तर्हि प्रामाण्यानुमितेरप्यप्रामाण्यदर्शनान्न ततोऽपि प्रामाण्यनिश्चय इति चेत् , न ब्रूमो ज्ञानप्रामाण्यनिश्चयादेवार्थनिश्चय इति । किं तु
यत्राप्रामाण्यशङ्का नास्ति करतलामलकादिज्ञाने तत्र व्यवसाय एवार्थनिश्चय इति तत एव प्रवृत्तिर्निष्कम्पा । यत्रानभ्यासदशायां प्रामाण्यसंशयेनार्थनिश्चयं परिभूयार्थसंशयः,
तत्र प्रामाण्यनिश्चयाधीनज्ञानादर्र्थं निश्चित्य निष्कम्पं प्रवर्तते, नान्यथेति सर्वानुभवसिद्धम् ।
अत एवागृहीतप्रामाण्यमेव ज्ञानं परप्रामाण्यं निश्चाययति । अप्रामाण्यशङ्काकलङ्काभावात् । यत्र तु प्रामाण्यज्ञाने अप्रामाण्यशङ्कया प्रामाण्यसंशयस्तत्र
प्रामाण्यज्ञाने प्रामाण्यनिश्चयादेव प्रामाण्यनिश्चयः । एवं यावदप्रामाण्यशङ्कं तज्ज्ञानप्रामाण्यनिश्चयादेव तन्निश्चयः । न चैवमनवस्था । चरमज्ञानप्रामाण्य(ज्ञानज्ञान)स्य
ज्ञानाभावेन कोटिस्मरणाभावेन विषयान्तरसंचारेण वा प्रामाण्यसंशयानवश्यम्भावात् ।
अन्यथा भट्टमते प्रामाण्यस्य ज्ञानानुमितिग्राह्यत्वेनानवस्था स्यात् । गुरुमतेऽपि प्रामाण्यस्य स्वग्राह्यत्वं न स्वग्राह्यम् , स्वरूपप्रामाण्याभ्यां बहिर्भूतत्वात्,
परग्राह्यत्वेऽनवस्थानात्। किं तु परिशेषानुमानेन प्रमाणान्तरेण वा ग्राह्यम् । तथा च तत्प्रामाण्यस्यापि स्वग्राह्यत्वमन्येनैवेत्यनवस्थैव ।
यत्तु - - व्यवसायस्य प्रामाण्यनिश्चयादेव प्रवृत्तेर्न तस्यापि प्रामाण्यानुसरणमिति नानवस्था । न च प्रामाण्यसंशयादौचित्यावर्जितो विषयसंशय इति वाच्यम् ।
निश्चिते संशयाभावात् । अन्यथा स्वतो ग्रहेऽपि तत्संशयेऽनवस्थेति ।
तदसत् । यदि प्रामाण्यसंशयान्न विषये संशयो निश्चितत्वात् , तदा विषयनिश्चयार्थं प्रामाण्यनिश्चयो व्यर्थः। प्राथमिकविषयनिश्चयादेव निष्कम्पप्रवृत्त्युपपत्तेः ।
नहि विषयसंशयमनादृत्य प्रामाण्यनिश्चयः प्रवृत्तिहेतुरित्युक्तम् । अन्यसंशयादन्यत्र निश्चिते कथं संशय इति चेत् , अनुभवं पृच्छ। येन स्वसाक्षिकमेव प्रामाण्यसंशयस्य
विषयसंशयहेतुत्वमनुमतम्। ज्ञानविषयत्वमपि प्रामाण्यसंशयमासाद्य विषयसंशायकम् ।
ननु लिङ्गपक्षव्याप्त्यादीनां ज्ञानस्य प्रामाण्यावधारणेऽनवस्था, अनवधारणे हेत्वसिद्धिः। अथ लिङ्गादिज्ञानं स्वविषयावधारणे कर्तव्ये स्वप्रामाण्यज्ञानं नापेक्षते,
अनुमानमात्रोच्छेदप्रसङ्गात् । लिङ्गादिनिश्चयस्य च स्वकारणाधीनस्य सर्वसिद्धत्वादिति चेत् , न । प्रामाण्यसंशयेन लिङ्गस्यापि संदेहात् । न हि न लिङ्गज्ञाने
प्रामाण्यसंशयः, अविरोधादिति ।
उच्यते । अप्रामाण्यशङ्काकलङ्काभावे लिङ्गादिज्ञानस्यैवार्थनिश्चायकत्वात्, तत्कलङ्के तूक्तैव गतिः।
यत्तु - - व्यवसाये क्वचिदप्रामाण्यशङ्का भवति, क्वचिन्नेति - - त्वयापि वाच्यम् ।
एवं बहुवित्तव्ययायाससाध्ये स्वर्गसाधनं याग इति ज्ञानं न गृहीतप्रामाण्यं प्रवर्तकम् , प्रामाण्यानुमितेः पूर्वमेव तस्य विनाशात् । किं तु
तज्ज्ञानसमानविषयकमप्रामाण्यशङ्काशून्यं ज्ञानान्तरमेव ।
नन्वेवं बहुवित्तव्ययायाससाध्ये निष्कम्पप्रवृत्तावनुपयोगित्वात् निष्फलं प्रामाण्यज्ञानमिति किं तदुपायानुसरणेनेति चेत् , न । स्वर्गसाधनं याग इति ज्ञानप्रामाण्ये
निश्चिते तत्समानविषयकज्ञानान्तरे अप्रामाण्यशङ्का न भवतीति ज्ञानान्तरमगृहीतप्रामाण्यमपि स्वार्थनिश्चयरूपं निष्कम्पप्रवृतिं्त जनयतीत्यप्रामाण्यशङ्काप्रतिबन्धद्वारा
निष्कम्पप्रवृत्तावुपयुज्यते प्रामाण्यज्ञानमिति न निष्फलम् ।
यत्तु - - अनुमानस्य निरस्तसमस्तविभ्रमाशङ्कस्य स्वतः एव प्रामाण्यग्रह इत्युक्तम् । तत् धूमवति वह्निज्ञानत्वमनुमितेः प्रामाण्यनियतमनुव्यवसायोपनीतम् ।
अतो विशेषदर्शनान्न तत्राप्रामाण्यशङ्केति प्रामाण्यनिश्चयादेवाप्रामाण्यशङ्काविरहात् अर्थं निश्चित्य निष्कम्पव्यवहार इत्यभिप्रायः ।
वस्तुतस्तु परतः पक्षे न क्वचिदपि प्रामाण्यग्रहः प्रवर्तक इति । एवमनुव्यवसायस्य प्रामाण्यनियतत्वान्न प्रामाण्यशङ्का । न ह्यजानन् जानामीति प्रत्येति । न
वा घटज्ञाने पटं जानामीति । भ्रमेऽप्यनुव्यवसायेन रजतत्वादिकं व्यवसायप्रकारत्वेनोल्लिख्यते। तच्च तथैव ।
यत्तु - - अभ्यासदशायां झटिति प्रचुरतरनिष्कम्पप्रवृत्तिदर्शनात् प्रामाण्यं स्वत एव गृह्यते, अन्यत्र तु परत इति । तन्न। विशेष्यनिष्ठात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नत्वादिकं
प्रामाण्यं स्वतो ग्रहीतुमशक्यमिति परत एव गृह्यते । झटिति प्रवृत्तिस्तु करचरणादिमति शरीरज्ञानत्वादेर्विशेषस्यानुव्यवसायेन ग्रहादप्रामाण्यशङ्काशून्यात् व्यवसायादेव, न
प्रामाण्यज्ञानं प्रवर्तकमित्युक्तम् । झटिति तत्समवधानं तु स्वकारणाधीनम् । न हि पिपासूनां झटिति प्रचुरतरा समर्था च प्रवृत्तिरम्भसीति पिपासोपशमनशक्तिरस्य प्रत्यक्षा
इति ।
॥ इति श्रीगङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे प्रामाण्यज्ञप्तिवादः॥