अन्नंभट्टविरचितः
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥ १ ॥
दीपिका
विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम् ।
टीकां शिशुहितां कुर्वे तर्कसंग्रहदीपिकाम् ॥
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताक-इष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नंश्चिकीर्षितं प्रतिजानीते ।
निधायेति। ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति। मङ्गले कृतेऽपि कादम्बर्यादौ समाप्त्यदर्शनात्, मङ्गलाभावेऽपि किरणावल्यादौ समाप्तिदर्शनाच्च अन्वयव्यतिरेकाभ्यां व्यभिचारादिति चेत् न । कादम्बर्यादौ विघ्नबाहुल्यात्समाप्त्यभावः । किरणावल्यादौ ग्रन्थाद्बहिरेव मङ्गलं कृतमतो न व्यभिचारः । ननु मङ्गलस्य (ग्रन्थादौ) कर्तव्यत्वे किं प्रमाणमिति चेन्न। शिष्टाचारानुमितश्रुतेरेव प्रमाणत्वात्। तथा हि मङ्गलं वेदबोधित- कर्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वाद्दर्शादिवत् । भोजनादौ व्यभिचारवारणाय अलौकिकेति । रात्रिश्राद्धादौ व्यभिचारवारणाय अविगीतेति। शिष्टपदं स्पष्टार्थम् । न कुर्यान्निष्फलं कर्म इति जलताडनादेरपि निषिद्धत्वात् । तर्क्यन्ते प्रतिपाद्यन्ते इति तर्काः । द्रव्यादिपदार्थास्तेषां संग्रहः संक्षेपेण स्वरूपकथनं क्रियत इत्यर्थः । कस्मै प्रयोजनायेत्यत आह। सुखबोधायेति। सुखेनानायासेन यो बोधः, पदार्थज्ञानं तस्मादित्यर्थः । ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वोऽयं ग्रन्थः क्रियत इत्यत आह । बालानामिति । तेषामतिविस्तृतत्वाद्बालानां बोधो न जायत इत्यर्थः । ग्रहणधारणपुटुर्बालः न तु स्तनन्धयः । किं कृत्वा क्रियत इत्यत आह। निधायेति । विश्वेशं जगन्नियन्तारम् । हृदि निधाय नितरां स्थापयित्वा सदा तद्ध्यानपरो भूत्वेत्यर्थः । गुरूणां विद्यागुरूणां, वन्दनं नम्स्कारं, विधाय कृत्वेत्यर्थः ॥
उद्देशप्रकरणम् (प्रथमोऽध्यायः)
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः ॥ २ ॥
दीपिका
पदार्थान् विभते । द्रव्येति । पदस्यार्थः पदार्थः इति व्युत्पत्त्याभिधेयत्वं पदार्थसामान्यलक्षणम् (लभ्यते) । ननु विभागादेव सप्तत्वे सिद्धे सप्तपदग्रहणं व्यर्थमिति चेन्न । अधिकसंख्याव्यवच्छेदार्थकत्वात् । नन्वतिरिक्तः पदार्थः प्रमितो वा न वा । नाऽद्यः प्रमितस्य निषेधायोगात् । न द्वितीयः प्रतियोगिप्रमितिं विना निषेधानुपपत्तेरिति चेन्न|पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थकत्वात् (सप्तग्रहणम्) । ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यम् । सप्तभिन्नस्याप्रसिद्धया कथं सप्तान्यतमत्वव्याप्तिनिश्चय इति चेन्न । द्रव्यादिसप्तान्यतमत्वं नाम द्रव्यादिभेदसप्तकाभाववत्त्वम् । अतो दोषविरहात् । एवमग्रेऽपि द्रष्टव्यम् ॥
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥ ३ ॥
दीपिका
द्रव्यं (द्रव्याणि) विभजते । तत्रेति । तत्र द्रव्यादिमध्ये । द्रव्याणि नवैवेत्यन्वयः । कानि तानि इत्यत आह । पृथिवीति। ननु तमसो दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणीति । तथा हि । नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया च तमसो द्रव्यत्वं तावत् सिद्धम् । तत्र तमसो नाकाशादिपञ्चकेऽन्तर्भावः रूपवत्त्वात् । अत एव न वायौ, स्पर्शाभावात् सदागतिमत्त्वाभावाच्च । नापि तेजसि, भास्वरूपाभावात् उष्णस्पर्शाभावाच्च । नापि जले, शीतस्पर्शाभावात् नीलरूपवत्त्वाच्च । नापि पृथिव्यां, गन्धाभावात् स्पर्शरहितत्वाच्च । तस्मात्तमो दशमद्रव्यमिति चेन्न । तमसस्तेजोऽभावरूपत्वात् । तथा हि । तमो न रूपिद्रव्यमालोकासहकृतचक्षुर्ग्राह्यत्वादालोकाभाववत् । रूपिद्रव्यचाक्षुषप्रमायामालोकस्य कारणत्वात् । तस्मात् प्रौढप्रकाशकतेजस्सामान्याभावस्तमः, तत्र नीलं तमश्चलति इति प्रत्ययो भ्रमः । अतो नव द्रव्याणीति सिद्धम् । द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम् । लक्ष्यैकदेशावृत्तित्वमव्याप्तिः । यथा गोः कपिलत्वम् । अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यमात्रावृत्तित्वमसंभवः । यथा गोरेकशफवत्त्वम् । एतद्दूषणत्रयरहितधर्मो लक्षणम् । स एवासाधारणधर्म इत्युच्यते । लक्षयतावच्छेदकसमनियतत्वमसाधारणत्वम् । व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावभिदेयत्वादौ चातिव्याप्तिरतस्तद्वारणाय तद्भिन्नत्वं धर्मविशेषणं देयम् । व्यवहारस्यापि लक्षणप्रयोजनत्वे तन्न देयम् ,व्यावृत्तेरपि व्यवहारसाधनत्वात् । ननु गुणवत्त्वं न द्रव्यलक्षणम्, आद्यक्षणावच्छिन्नघटे उत्पन्नविनिष्टघटे चाव्याप्तेरिति चेत्, न। गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात् । नन्वेवमपि एकं रूपं रसात्पृथक् इति व्यवहाराद्रूपादावतिव्याप्तिरिति चेन्न । एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारात् ।
रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-गुरूत्व-द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्म-संस्काराः चतुर्विंशतिर्गुणाः ॥ ४ ॥
दीपिका
गुणान्विभजते । रूपेति । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः । गुणत्वजातिमान्वा । ननु लघुत्वकठिनत्वमृदुत्वादीनां विद्यमानत्वात् कथं चतुर्विंशतिर्गुणा इति चेन्न । लघुत्वस्य गुरूत्वाभावरूपत्वान्मृदुत्वकठिनत्वयोः अवयवसंयोगविशेषत्वात् ।
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ ५ ॥
दीपिका
कर्म विभजते । उत्क्षेपणेति । संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म कर्मत्वजातिमद्वा । भ्रमणादीनामपि गमने अन्तर्भावान्न पञ्चत्वविरोधः ॥
परमपरं चेति द्विविधं सामान्यम् ॥ ६ ॥
दीपिका
सामान्यं विभजते । परमिति । परमधिकदेशवृत्ति । अपरं न्यूनदेशवृत्ति । सामान्यादिचतुष्टये जातिर्नास्ति ॥
नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥ ७ ॥
दीपिका
विशेषं विभजते । नित्येति । पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपञ्चकं च नित्यद्रव्याणि ।
समवायस्त्वेक एव ॥ ८ ॥
दीपिका
समवायस्य भेदो नास्तीत्याह । समवायस्त्विति ।
अभावश्चतुर्विधः - प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावश्चेति ॥ ९ ॥
दीपिका
अभावं विभजते । प्रागभावेति ।
अथ द्वितीयोऽध्याय:
तत्र गन्धवती पृथिवी । सा द्विविधा-नित्याऽनित्या च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः। पुनस्त्रिविधाः शरीरेन्द्रिय विषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणम् । तच्च नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥ १॥
दीपिका
तत्रोद्देशक्रमानुसारात् प्रथमं पृथिव्या लक्षणमाह । तत्रेति । नाम्ना पदार्थसंकीर्तनमुद्देशः । उद्देशक्रमे च सर्वत्रेच्छैव नियामिका । ननु सुरभ्यसुरभ्यवयवाख्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः । न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम् । अवयवगन्धस्यैव तत्र प्रतीतिसंभवेन चित्रगन्धानङ्गीकारात् । किञ्च
उत्पन्न-विनष्टघटादावव्याप्तिरिति चेन्न | गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात् । ननु जलादावपि गन्धप्रतीतेरतिव्याप्तिरिति चेन्न । अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात् । ननु तथापि कालस्य सर्वाधारतया सर्वेषां लक्षणानां तत्रातिव्याप्तिरिति चेन्न । सर्वाधारताप्रयोजकभिन्नसंबन्धेन लक्षणस्य विवक्षितत्वात् । पृथिवीं विभजते । सा द्विविधेति । नित्यत्वं ध्वंसाप्रतियोगित्वम् । अनित्यत्वं ध्वंसप्रतियोगित्वम् । प्रकारान्तरेण विभजते । पुनरिति । आत्मनो भोगायतनं शरीरम् । यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् । सुखदुःखसाक्षात्कारो भोगः । शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम् । शरीरेन्द्रियभिन्नो विषयः । एवं च गन्धवच्छरीरं पार्थिवशरीरम्, गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषय इति तत्तल्लक्षणं बोध्यम् । पार्थिवशरीरं दर्शयति । शरीरमिति ।
इन्द्रियं दर्शयति । इन्द्रियमिति । गन्धग्राहकमिति प्रयोजनम् । घ्राणमिति संज्ञा । नासाग्रेत्याश्रयोक्तिः । एवमुत्तरत्र ज्ञेयम् । पार्थिवविषयं दर्शयति । मृतपाषाणादीति ।
शीतस्पर्शवत्यः आपः । ता द्विविधाः नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनः त्रिविधाः शरीरेन्द्रियविषयभेदात् । शरीरं वरूणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित् समुद्रादिः ॥ २॥
दीपिका
अपां लक्षणमाह। शीतेति। उतपन्नविनिष्टजलेऽव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वे तात्पर्यम्॥ ``शीतं शिलातलम्’’ इत्यादौ जलसंबन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः । अन्यत्सर्वं पूर्वरीत्या व्याख्येयम् ॥
उष्णस्पर्शवत्तेजः । तच्च द्विविधं, नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् । शरीरं आदित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः, भौम-दिव्य-औदर्य-आकरजभेदात् । भौमं वह्नयादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि ॥ ३॥
दीपिका
तेजसो लक्षणमाह । उष्णस्पर्शवदिति । `उष्णं जलम्' इति प्रतीतेस्तेजः संयोगानुविधायित्वान्नातिव्याप्तिः। विषयं विभजते। भौमेति। ननु `सुवणं पार्थिवं' पीतत्वाद्गुरूत्वात् हरिद्रावत् इति चेत्, न अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन, जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके द्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्। सुवर्णस्य अत्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वाऽनुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः। रूपवत्तया वाय्वादिष्वनन्तर्भावात्तेजसत्वसिद्धिः। तस्योष्णस्पर्शभास्वररूपयो-रूपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः । तस्मात् सुवर्णं तैजसमिति सिद्धम् ।
रूपरहितः स्पर्शवान् वायुः । स द्विविधः नित्यः अनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनः त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तःसंचारी वायुः प्राणः । स च एकोऽपि उपाधिभेदात् प्राणापानादिसंज्ञां लभते ॥ ४ ॥
दीपिका
वायुं लक्षयति । रूपरहितेति । आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति । पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति । ननु प्राणस्य कुत्रान्तर्भाव इत्यत आह । शरीरेति । स चेति । एक एवः प्राणः स्थानभेदात् प्राणापानादिशब्दैः व्यवह्रियत इत्यर्थः ।
स्पर्शानुमेयो वायुः। तथा हि - योऽयं वायौ वाति सति अनुष्णाशीतस्पर्श उपलभ्यते स क्वचिदाश्रितः गुणत्वाद्रूपवत्। न चास्य आश्रयः पृथिवी उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपत्त्वनियमात्। न जलतेजसी अनुष्णाशीतस्पर्शवत्त्वात्। न विभुचतुष्टयम् सर्वत्रोपलब्धिप्रसङ्गात्। न मनः परमाणुस्पर्शस्यातीन्द्रियत्वात् । तस्माद्यः प्रतीयमानस्पर्शाश्रयः स वायुः (एव) । ननु वायुः प्रत्यक्षः प्रत्यक्षाश्रयत्वात् घटवत् इति चेत्। न । उद्भूतरूपस्योपाधित्वात् । ``यत्र द्रव्यत्वे सति बहिरिन्द्रियजन्यप्रत्यक्षत्वं, तत्र उद्भूतरूपवत्त्वम्'' इति साध्यव्यापकत्वम्। पक्षे साधनाव्यापकत्वम्। न चैवं तप्तवारिस्थतेजसोऽपि अप्रत्यक्षत्वापत्तिः इष्टत्वात् ।
तस्माद्रूपरहितत्वाद्वायुरप्रत्यक्षः ।
कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः –
इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते । ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया जायते । ततः परमाणुद्वयसंयोगे द्वयणुकमुत्पद्यते । त्रिभिरेव द्वयणुकैस्त्र्यणुकमुत्पद्यते । एवं चतुरणुकादिक्रमेण महती पृथिवीः, महत्य आपः, महत्तेजः, महान्वायुरूत्पद्यते । एवमुत्पन्नस्य कार्यद्रव्यस्य संजिहीर्षावशात् क्रियया परमाणुद्वयविभागे सति द्वयणुकनाशः, ततस्त्र्यणुकस्य, ततश्चतुरणुकस्य इत्येवं पृथिव्यादिनाशः । असमवायिकारणनाशात् द्वयणुकनाशः । समवायिकारणाशात् त्र्यणुकनाश इति संप्रदायः । सर्वत्रासमवायिकारणनाशात् द्रव्यनाश इति नवीनाः । किं पुनः परमाणुसद्भावे प्रमाणम् । उच्यते - जालसूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं यत् द्रव्यं उपलभ्यते तत्सावयवं चाक्षुष-द्रव्यत्वाद्धटवत् । त्र्यणुकावयवोऽपि सावयवः महदारम्भकत्वात्कपालवत् । यो द्वयणुकावयवः स परमाणुः, स च नित्य:, तस्यापि कार्यत्वे अनवस्थाप्रसङ्गात् । तथा च मेरुसर्षपयोरपि तुल्यपरिमाणापत्ते: । सृष्टिप्रलयसद्भावे किं प्रमाणमिति चेत् ``धाता यथापूर्वमकल्पयत् ।'' इति श्रुतिरेव प्रमाणम् । `सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः । सर्वभावकार्यध्वंसो महाप्रलयः' इति विवेकः ।
शब्दगुणकमाकाशम् । तच्चैकं नित्यञ्च ॥ ५॥
दीपिका
आकाशं लक्षयति। शब्दगुणकमिति। नन्वाकाशमपि पृथिव्यादिवन्नाना, किं नेत्याह। तच्चैकमिति। भेदे प्रमाणाभावादित्यर्थः। एकत्वादेव सर्वत्र शब्दोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वं, मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं क्रियावत्त्वं वा। विभुत्वादेव आत्मवन्नित्यमित्याह नित्यं चेति ।
अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ॥ ६॥
दीपिका
कालं लक्षयति । अतीतेति । सर्वाधारः कालः सर्वकार्यनिमित्तकारणम् ।
प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ॥ ७॥
दीपिका
दिशो लक्षणमाह । प्राचीति । दिगपि कार्यमात्रनिमित्तकारणम् ।
ज्ञानाधिकरणमात्मा । स द्विविधः परमात्मा जीवात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥ ८॥
दीपिका
आत्मनो लक्षणमाह । ज्ञानेति । आत्मानं विभजते । स द्विविध इति । परमात्मनो लक्षणमाह । तत्रेति । नित्यज्ञानाधिकरणत्वमीश्वरत्वम् । नन्वीश्वरसद्भावे किं प्रमाणम् । न तावत्प्रत्यक्षम् । तद्धि बाह्याभ्यान्तरं
वा । नाद्यः अरूपिद्रव्यत्वात् । न द्वितीयः आत्मसुखदुःखादिव्यतिरिक्तत्वात् । नाप्यनुमानं लिङ्गाभावादिति चेत्, न । क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वाद्धटवत् इत्यनुमानस्यैव प्रमाणत्वात् । उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् । उपादानं समवायिकारणम् । सकलपरमाण्वादिसूक्ष्मदर्शित्वात्सर्वज्ञत्वम् । यः सर्वज्ञः स सर्ववित् इत्यागमोऽपि तत्र प्रमाणम् ।
जीवस्य लक्षणमाह । जीव इति । सुखाद्याश्रयत्वं जीवलक्षणम् । ननु मनुष्योऽहं ब्राह्मणोऽहम्- इत्यादौ सर्वत्राहंप्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति चेत्, न । शरीरस्यात्मवे करपादिनाशे शरीरनाशादात्मनोऽपि
नाशप्रसंगात् । नापीन्द्रियाणामात्मत्वम् ,`योऽहं घटमद्राक्षं सोऽहमिदानीं स्पृशामि' इत्यनुसन्धानाभावप्रसङ्गात् ।
अन्यानुभूतेऽर्थे अन्यस्यानुसंधानायोगात् । तस्माद्देहेइन्द्रियव्यतिरिक्तो जीवः सुखदुःखादिवैचित्र्यात्प्रतिशरीरं भिन्नः। स च न परमाणु परिमाणः। सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात् । न मध्यमपरिमाणवान्, तथा सति अनित्यत्वप्रसङ्गेन कृतहानाकृताभ्यागमप्रसङ्गात् । तस्मान्नित्यो विभुर्जीवः ॥
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ॥ ९॥
दीपिका
मनसो लक्षणमाह । सुखेति । स्पर्शरहित्वे सति क्रियावत्वं मनसो लक्षणम् । तद्विभजते । तच्चेति । एकैकस्यात्मन एकैकं मन इत्यात्मनामनेकत्वान् मसोऽप्यनेकत्वमित्यर्थः । परमाणुरूपमिति । मध्यमपरिमाणवत्त्वे अनित्यत्वप्रसङ्गादित्यर्थः। ननु मनो विभु स्पर्शरहित्वे सति द्रव्यत्वादाकाशादिवदिति चेन्न । मनसो विभुत्वे आत्ममनः संयोगस्याऽसमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गः । न च विभुद्वयसंयोगोऽस्त्विति वाच्यम् । तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गात, पुरीतद्रव्यतिरिक्तस्थले आत्ममनः संयोगस्य सर्वदा विद्यमानत्वात् । अणुत्वे तु यदा मनः पुरीतत् प्रविंशति तदा सुषुप्तिः यदा निस्सरति तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः ।
अथ तृतीयोऽध्याय : (गुणनिरूपणम् )
चक्षुर्मात्रग्राह्यो गुणो रूपम्। तच्च शुक्लनीलपीतरक्तहरितकपिशचित्र भेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभावस्वरशुक्लं जले । भावस्वरशुक्लं तेजसि ॥ १॥
दीपिका
रूपं लक्षयति। चक्षुरिति। संख्यादावतिव्याप्तिवारणाय मात्रपदम्। रूपत्वेऽतिव्याप्तिवारणाय गुणपदम्। प्रभाभित्तिसंयोगेऽतिव्याप्तिवारणाय चक्षुर्मात्रग्राह्यजातिमत्त्वं वाच्यम्। रूपं विभजति नन्वव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपमिति चेत्, न। रूपस्य व्याप्यवृत्तित्वनियमात् । ननु चित्रपटे अवयवरूपस्यैव प्रतीतिरिति चेत्, न। रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसंगात्। न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकं गौरवात्। तस्मात्पटस्य प्रत्यक्षत्वान्यथानुपपत्त्या चित्ररूपसिद्धिः । रूपस्याश्रयमाह। पृथिवीति। आश्रयं विभज्य दर्शयति । तत्रेति ।
रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव ॥ २॥
दीपिका
रसं लक्षयति। रसनेति। रसत्वेऽतिव्याप्तिवारणाय गुणपदम्। रसस्याश्रयमाह। पृथिवीति। आश्रयं विभज्य दर्शयति। तत्रेति।
घ्राणाग्राह्यो गुणो गन्धः । स द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रव्रित्तिः ॥ ३॥
दीपिका
गन्धं लक्षयति । घ्राणेति । गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम् ।
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवायव्योः ॥ ४॥
दीपिका
स्पर्शं लक्षयति । त्वगिति । स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम् । संयोगादावतिव्याप्तिवारणाय मात्रपदम् ।
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्र अपाकजं नित्यमनित्यम् च । नित्यगतं नित्यम् अनित्यगतमनित्यम् ॥ ५॥
दीपिका
पाकजमिति। पाकस्तेजः संयोगः। तेन पूर्वरूपं नश्यति रूपान्तरमुत्पद्यत इत्यर्थः। तत्र परमाणुष्वेव पाको न द्वयणुकादौ। आमनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनद्वर्यणुकादिक्रमेण रक्तघटोत्पत्तिः। तत्र परमाणवः समवायिकारणम्। तेजः संयोगोऽसमवायिकारणम्। अदृष्टादिकं निमित्तकारणम्। द्वयणुकादिरूपे कारणरूपसमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः। पूर्वघटस्य नाशं विनैव् अवयविनि अवयवेषु च परमाणुपर्यन्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः। अत एव पार्थिवपरमाणुरूपादिक-मनित्यमनित्यर्थः। अन्यत्र जलादावित्यर्थः। नित्यगतमिति। परमाणुगतमित्यर्थः। अनित्यगतमिति। द्वयणुकादि- गतभित्यर्थः। रूपादिचतुष्टयम् उद्भूतं प्रत्यक्षम्। अनुद्भूतमप्रत्यक्षम्। उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः। तदभावोऽनुद्भूतत्वम्।
एकत्वादिव्यवहारहेतुः संख्या । सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्राऽनित्यमेव ॥ ६॥
दीपिका
संख्या लक्षयति। एकेति।
मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्तिः । तच्चुर्विधम् । अणु महत् दीर्घं हृस्वं चेति ॥ ७॥
दीपिका
परिमाणं लक्षयति । मानेति । परिमाणं विभजते । तच्चेति । भावप्रधानो निर्देशः । अणुत्वं,महत्त्वं,दीर्घत्वं,ह्रस्वत्वं चेत्यर्थः ।
पृथग्व्यवहारासाधारणकारणं पृथक्वत्वम् । सर्वद्रव्यवृत्तिः ॥८॥
दीपिका
पृथक्त्वं लक्षयति - पृथगिति ॥ "इदमस्मात् पृथक्" इति व्यवहारकारणमित्यर्थ: ।
संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥ ९॥
दीपिका
संयोगं लक्षयति। संयुक्तेति। इमौ संयुक्तौ इति व्यवहारहेतुरित्यर्थः। संख्यादिलक्षणे सर्वत्र दिक्कालादावतिव्यप्तिवारणाय असाधाराणेति विशेषणीयम्। संयोगो द्विविधः कर्मजः संयोगजश्चेति। आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः। द्वितीयो हस्तपुस्तकसंयोगात्कायपुस्तकसंयोगः। अव्याप्यवृत्तिः संयोगः।
स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम् ।
संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥ १०॥
दीपिका
विभागं लक्षयति । संयोगेति । कालादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय संयोगनाशक इति । विभागोऽपि द्विविधः कर्मजो विभागजश्चेति । आद्यो हस्तपुस्तकविभागः । द्वितीयो हस्तपुस्तक विभागा-त्कायपुस्तकविभागः । ।
परापरव्यवहारासाधारणकारणे परत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी । ते द्विविधे दिक्कृते कालकृते च । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम्।
कनिष्ठे कालकृतमपरत्वम् ॥ ११॥
दीपिका
परत्वापरत्वयोर्लक्षणमाह। परापरेति। परव्यवहारासाधारणकारणं परत्वम्। अपरव्यवहारासाधारणकारण- मपरत्वम् इत्यर्थः। ते विभजते । ते द्विविधे इति । दिक्कृतयोरूदाहरणमाह । दूरस्थ इति । कालकृते उदाहरति। ज्येष्ठ इति ।
आद्यपतनासमवायिकारणं गुरूत्वम् । पृथिवीजलवृत्ति ॥ १२॥
दीपिका
गुरूत्वं लक्षयति । आद्येति । द्वितीयादिपतनस्य वेगासमवायिकारणत्वद्वेगेऽतिव्याप्तिवारणाय आद्येति ।
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिव्यप्तेजोवृत्ति । तद्द्विविधं सांसिद्धिकं नैमित्तिकं च। सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ॥ १३ ॥
दीपिका
द्रवत्वं लक्षयति । आद्येति । स्यन्दनं प्रस्रवणम् । तेजःसंयोगजं नैमित्तिकम् । तद्भिन्नं सांसिद्धिकम् । पृथिव्यां नैमित्तिकमुदाहरति - घृतादाविति । तेजसि तदाह । सुवर्णादाविति ।
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ॥ १४॥
दीपिका
स्नेहं लक्षयति । चूर्णेति । कालादावतिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय पिण्डीभावेति ।
श्रोत्रग्राह्यो गुणः शब्दः, आकाशमात्रवृत्तिः । स द्विविधः, ध्वन्यात्मकः वर्णात्मकश्च । तत्र ध्वन्यात्मकः भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥ १५॥
दीपिका
शब्दं लक्षयति । श्रोत्रेति । शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय श्रोत्रेति । शब्दास्त्रिविधः संयोगजः, विभागजः, शब्दजश्चेति । तत्र आद्यो भेरीदण्डसंयोगजन्यः । द्वितीयो वंशे पाटयमाने दळद्वयविभागजन्यश्चटाशब्दः । भेर्यादिदेशमारभ्य श्रोत्रदेशपर्यन्तं द्वितीयादिशब्दाः शब्दजाः ।
सर्वेव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च ॥ १६॥
दीपिका
बुद्धेर्लक्षणमाह । सर्वव्यवहारेति । कालादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय सर्वव्यवहार इति । जानामीत्यनुव्यवसायगम्यं ज्ञानमेव लक्षणमिति भावः । बुद्धिं विभजते । सेति ।
संस्कारमात्रजन्यं ज्ञानं स्मृतिः ॥ १७॥
दीपिका
स्मृतेर्लक्षणमाह । संस्कारेति । भावनाख्यः संस्कारः । संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति ।
घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति । प्रत्यभिज्ञायाम् अतिव्याप्तिवारणाय मात्रपदम् ।
तद्भिन्नं ज्ञानमनुभवः । स द्विविधः, यथार्थोऽयथार्थश्च ॥ १ ८ ॥
दीपिका
अनुभवं लक्षयति । तद्भिन्नमिति । स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः । अनुभवं विभजते । स द्विविध इति ।
तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा रजते इदं रजतमिति ज्ञानम् । सैव प्रमेत्युच्यते ॥ १९॥
दीपिका
यथार्थानुभवस्य लक्षणमाह । तद्वतीति । ननु घटे घटत्वम् इति प्रमायामव्याप्तिः, घटत्वे घटाभावादिति चेत् | न, यत्र यत्संबन्धोऽस्ति तत्र तत्संबन्धानुभवः इत्यर्थाद्धटत्वे घटसंबन्धोऽस्तीति नाव्याप्तिः । सैवेति । यथार्थानुभव एव शास्त्रे प्रमेत्युच्यत इत्यर्थः ।
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । यथा शुक्ताविदंरजतमिति ज्ञानम् । सैव अप्रमा इत्युच्यते ॥ २०॥
दीपिका
अयथार्थानुभवं लक्षयति । तदभाववतीति । नन्विदं संयोगीति प्रमायामतिव्याप्तिरिति चेत् न। यदवच्छेदेनयत्संबन्धाभावस्तदवच्छेदेन तत्संबन्धज्ञानस्य विविक्षितत्वात्। संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्संयोगावच्छेदेन संयोगसंबन्धस्य सत्त्वान्नातिव्याप्तिः ।
यथार्थानुभवः चतुर्विधः प्रत्यक्षानुमित्युपमितिशब्दाभेदात् ॥ २१॥
दीपिका
यथार्थानुभवं विभजते । यथार्थेति ।
तत् करणमपि चतुर्विधं प्रत्यक्षानुमानोपशब्द भेदात् ॥ २२॥
दीपिका
प्रसङ्गात्प्रमाकरणं विभजते । तत्करणमपीति । प्रमाकरणमित्यर्थः । प्रमाकरणं प्रमाणमिति प्रमाण-सामान्यलक्षणम् ।
असाधरणं कारणं करणम् ॥ २३॥
दीपिका
करणलक्षणमाह । असाधारणेति । दिक्कालादावतिव्याप्तिवारणाय असाधारणेति ।
कार्यनियतपूर्ववृत्ति कारणम् ॥ २४॥
दीपिका
कारणलक्षणमाह । कार्येति । पूर्ववृत्ति कारणमित्युक्ते रासभादावतिव्याप्तिः स्यादतो नियतेति । तावन्मात्रे कृते कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति। ननु तन्तुरूपमपि पटं प्रति कारणं स्यादति चेत् न, अनन्यथासिद्धत्वे सतीति विशेषणात्। अनन्यथासिद्धत्वमन्यथासिद्धिरहितत्वम्। अन्यथासिद्धिः त्रिविधा- येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तेन तदन्यथासिद्धम् । यथा तन्तुनां तन्तुरूपं तन्तुत्वं च पटं प्रति । तं प्रति तदन्यथासिद्धम् । यथा शब्दं प्रति पूर्ववृतित्त्वे ज्ञात एव पटं प्रत्याकाशस्य । अन्यत्र कॢप्तनियतपूर्ववतिर्न एव कार्यसंभवे तत्सहभूतमन्यथासिद्धम् । यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य । एवञ्च अनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम् ।
कार्यं प्रागभावप्रतियोगि ॥ २५॥
दीपिका
कार्यलक्षणमाह । कार्यमिति ।
कारणं त्रिविधम् - समवाय्यसमवायिनिमित्तभेदात् ॥ २६॥
दीपिका
कारणं विभजते । कारणमिति ।
यत् समवेतं कार्यं उत्पद्यते तत् समवायिकारणम् । यथा तंतवः पटस्य, पटश्च स्वगतरूपादेः ॥ २७॥
दीपिका
समवायिकारणस्य लक्षणमाह - यत्समवेतमिति । यस्मिन् समवेतमित्यर्थः । असमवायिकारणं लक्षयति- पटेन सह एकस्मिंस्तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिकारणमियर्थः ।
कार्येण कारणेन वा सह एकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम् ।
यथा तंतुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य ॥ २८॥
दीपिका
कार्यणेति । कार्येणेत्येतदुदाहरति- तन्तुसंयोग इति । पटेन सह एकस्मिंस्तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिकारणमियर्थः ।
कारणेनेत्येतदुदाहरति- तन्तुरूपमिति । कारणेन पटेन सह एकस्मिंस्तन्तौ समवेतत्वात् । तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः ।
तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ॥ २९॥
दीपिका
निमित्तकारणं लक्षयति - तदुभयेति । समवाय्यसमवायिभिन्नकारणं निमित्तकारणमित्यर्थः ।
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥ ३०॥
दीपिका
करणलक्षणमुपसंहरति - तदेतदिति ।
अथ चतुर्थोऽध्याय
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ॥ ३१॥
दीपिका
प्रत्यक्षलक्षणमाह - तत्रेति । प्रमाणचतुष्टयमध्ये इत्यर्थः ।
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किञ्चित् । सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ,
ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति ॥ ३२॥
दीपिका
प्रत्यक्षज्ञानस्य लक्षणमाह- इन्द्रियेति । इन्द्र्यियं चक्षुरादिकम्, अर्थो घटादिः, तयोः संनिकर्षः संयोगादिः, तज्जन्यं ज्ञानमित्यर्थः । तद्विभजते तद्द्विविधमिति । निर्विकल्पस्य लक्षणमाह- निष्प्रकारकमिति। विशेषण- विशेष्यसंबन्धानवगाहिज्ञानमित्यर्थः । ननु निर्विकल्पके किं प्रमाणमिति चेत् न, गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं, विशिष्टज्ञानत्वात्, दण्डीति ज्ञानवत् इत्यनुमानस्य प्रमाणत्वात्। विशेषणज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गान्निर्विकल्पकसिद्धिः। सविकल्पकं लक्षयति । सप्रकारकमिति । नामजात्यादिविशेष्यविशेषणसंबन्धावगाहि ज्ञानमित्यर्थः । सविकल्पकमुदाहरति । यथेति ।
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः षड्विधः । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति ॥ ३३॥
दीपिका
इन्द्रियार्थसंनिकर्षं विभजते । प्रत्यक्षेति ।
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः षड्विधः । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति ॥ ३३॥
दीपिका
इन्द्रियार्थसंनिकर्षं विभजते । प्रत्यक्षेति ।
चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ॥ ३४॥
दीपिका
संयोगसंनिकर्षमुदाहरति । चक्षुषेति । द्रव्यप्रत्यक्षे सर्वत्र संयोगः संनिकर्षः । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षज्ञानमुत्पद्यते इत्यर्थः ।
घटरूपप्रत्यक्षजनने संयुक्त समवायः संनिकर्षः । चक्षुः संयुक्ते घटे रूपस्य समवायात् ॥ ३५॥
दीपिका
संयुक्तसमवायमुदाहरति । घटरूपेति । तत्र युक्तिमाह । चक्षुःसंयुक्त इति ।
रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात् ॥ ३६॥
दीपिका
संयुक्तसमवेतसमवायमुदाहरति । रूपत्वेति ।
श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः कर्णविवरवर्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाश-गुणत्वात् गुणगुणिनोश्च समवायात् ॥ ३७॥
दीपिका
समवायमुदाहरति । श्रोत्रेणेति । तदुपपादयति । कर्णेति । ननु दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेत् न,
वीचीतरङ्गन्यायेन वा शब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य श्रोत्रेण संबन्धात्प्रत्यक्षसंभवः ।
शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे
शबत्वस्य समवायात् ॥ ३८॥
दीपिका
समवेतसमवायमुदाहरति । शब्दत्वेति ।
अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् ॥ ३९॥
दीपिका
विशेषणविशेष्याभावमुदाहरति । अभावेति । तदुपपादयति । घटाभाववदिति । भूतले घटो नास्तीत्यत्र अभावस्य विशेष्यत्वं द्रष्टव्यम् । एतेन अनुपलब्धेः प्रमाणान्तरत्वं निरस्तम्। यद्यत्र घटोऽभविष्यत्तर्हि भूतलमिवाद्रक्ष्यत, दर्शनाभावान्नास्तीति तर्कितप्रतियोगिसत्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैव अभावज्ञानोत्पत्तौ अनुपलब्धेः प्रमाणान्तरत्वासंभवात्। अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तावनुपलब्धेः करणत्वयोगात् । विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव, नातिरिक्तः संबन्धः । प्रत्यक्षज्ञानमुपसंहरस्तस्य करणमाह । एवमिति ।
एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम्, तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥ ४०॥
दीपिका
असाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः । प्रत्यक्षप्रमाणमुपसंहरति ।
अथ पंचमोऽध्याय: ।
अनुमितिकरणमनुमानम् ॥ १॥
दीपिका
अनुमानं लक्षयति- अनुमितिकरणमिति ।
परामर्शजन्यं ज्ञानमनुमितिः ॥ २॥
दीपिका
अनुमितिं लक्षयति- परामर्शेति । ननु संशयोत्तरप्रत्यक्षेऽतिव्याप्तिः स्थाणुपुरूषसंशयानन्तरं पुरूषत्वव्याप्य-करादिमानयम् इति परामर्शे सति पुरूष एव इति प्रत्यक्षजननात् । न च तत्रानुमितिरेवेति वाच्यम् । पुरूषं साक्षात्करोमि इत्यनुव्यवसायविरोधादिति चेत् न, पक्षतासहकृतपरामर्शजन्यत्वस्य विविक्षित्वात्।सिषाधयिषा-विरहविशिष्टसिद्धयभावः पक्षता । साध्यसिद्धिरनुमितिप्रतिबन्धिका । सिद्धिसत्त्वेऽपि अनुमियुयाम् इतीच्छाया-मनुमितिदर्शनात्। सिषाधयिषोत्तेजिका। तत्श्चोत्तेजकाभावविशिष्टमण्यभावस्य दाहकारणत्ववत्सिषाधयिषा-विरहविशिष्टसिद्धयभावस्याप्यनुमितिकारणत्वम् ।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ॥ ३॥
दीपिका
परामर्शं लक्षयति- व्याप्तीति। व्याप्तिविषयकं यत्पक्षधर्मताज्ञानं स परामर्श इत्यर्थः। परामर्शमभिनीयदर्शयति- यथेति । अनुमितिमभिनीय दर्शयति- तज्जन्यमिति । परामर्शजन्यमित्यर्थः । व्याप्तिलक्षणमाह- यत्रेति ।
यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ॥ ४॥
दीपिका
यत्र धूमस्तत्राग्निः इति व्याप्तेरभिनयः । साहचर्यनियमः इति लक्षणम् । साहचर्यं सामानाधिकरण्यं, तस्य नियमः। हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्यापाप्तिरित्यर्थः ।
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ५॥
दीपिका
पक्षधर्मतारूपमाह- व्याप्यस्येति ।
अनुमानं द्विविधं- स्वार्थं परार्थं च ॥ ६॥
दीपिका
अनुमानं विभजते- अनुमानमिति ।
तत्र स्वार्थं स्वानुमितिहेतुः, तथाहि, स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निः इति । तदन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते, अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते । तदेतत् स्वार्थानुमानम् ॥ ७॥
दीपिका
स्वार्थानुमानं दर्शयति स्वयमेवेति। ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः सहचारदर्शनेऽपि वज्रमणौ व्यभिचारोपलब्धेर्भूयोदर्शनेन कथं व्याप्तिग्रह इति चेत् न। व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात्। व्यभिचारज्ञानं निश्चयः शङ्का च । तद्विरहः क्वचित्तर्कात्, क्वचित्स्वतः सिद्ध एव । धूमाग्न्योर्व्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को व्यभिचारशङ्कानिवर्तकः । ननु सकलवह्निधूमयोरसन्निकर्षात्कथं व्याप्तिग्रह इति चेत् न। वह्नित्वधूमत्वरूप-सामान्यप्रत्यासत्त्यासकलवह्निधूमज्ञानसंभवात् । तस्मादिति। लिङ्गपरामर्शादित्यर्थः ।
यत्तु स्वयं धूमादग्निमनुमाय परंप्रतिबोधयितुं पञ्चावयव वाक्यं प्रयुज्यते तत् परार्थानुमानम् । यथा पर्वतो वह्निमान्, धूमत्वात् , यो यो धूमवान् स वह्निमान् यथा महानसः, तथा चायं, तस्मात्तथेति । अनेन प्रतिपादितात् लिङ्गात् परोऽप्यग्निं प्रतिपद्यते ।
परार्थानुमानमाह- यत्त्विति । यच्छब्दस्य `तत्परार्थानुमानम्'' इति तच्छब्देनान्वयः। पञ्चावयववाक्यमुदाहरति- यथेति ।
प्रतिज्ञा - हेतु - उदाहरण - उपनय – निगमनानि पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्वात् इति हेतुः । यो यो धूमवान् स वह्निमान् यथा महानस इत्युदाहरणम् । तथा च अयमिति उपनयः । तस्मात्तथेति निगमनम् ॥ ९॥
दीपिका
अवयवस्वरूपमाह- प्रतिज्ञेति ॥
उदाहृत्वाक्ये प्रतिज्ञादिविभागमाह- पर्वतो वह्निमानिति ॥
साध्यवत्तया पक्षवचनं प्रतिज्ञा। पञ्चम्यन्तं लिङ्गप्रतिपादकं हेतुः। व्याप्तिप्रतिपादकं उदाहरणम्। व्याप्तिविशिष्टलिङ्गप्रतिपादकंवचनमुपनयः । हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनं निगमनम् । अबाधितत्वादिकं निगमनप्रयोजनम् ।
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् । तस्मात् लिङ्गपरामर्शोऽनुमानम् ॥ १०॥
लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्नियर्था महानस इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्याप्तिरेकव्याप्तिः ॥ ११॥
दीपिका
लिङ्गं विभजते- लिङ्गमिति ॥
अन्वयव्यतिरेकिणं लक्षयति- अन्वयेनेति ॥ हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः, तदभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः ।
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् । तस्मात् लिङ्गपरामर्शोऽनुमानम् ॥ १०॥
लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्नियर्था महानस इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्याप्तिरेकव्याप्तिः ॥ ११॥
दीपिका
लिङ्गं विभजते- लिङ्गमिति ॥
अन्वयव्यतिरेकिणं लक्षयति- अन्वयेनेति ॥ हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः, तदभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः ।
अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटः अभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वात् अभिधेयत्वाच्च ॥ १२॥
दीपिका
केवलान्वयिनो लक्षणमाह- अन्वयेति ॥
केवलान्वयिसाध्यकं लिङ्गं केवलान्वयि। (वृत्तिमत्) अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः ।
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि, यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम् । न चेयं तथा । तस्मान्न तथेति । अत्र यद्गन्धवत् तदितरभिन्नम्
इत्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात् ॥ १३॥
दीपिका
केवलव्यतिरेकिणो लक्षणमाह- व्यतिरेकेति । तदुदाहरति-यथेति । नन्वितरभेदः प्रसिद्धो वा न वा । आद्ये यत्र प्रसिद्धस्तत्र हेतुसत्त्वे अन्वयित्वम्, असत्त्वे असाधारण्यम्। द्वितीये साध्यज्ञानाभावात्कथं तद्विशिष्टानुमितिः। विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात्प्रतियोगिज्ञानाभावाद्वयतिरेकव्याप्तिज्ञानमपि न स्यादिति चेत् न । जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यां साध्यते । तत्रत्रयोधत्वावच्छिन्नभेदात्मक - साध्यस्यैकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये ।
प्रत्येकाधिकरणप्रसिद्धया साध्यविशिष्टानुमितिः व्यतिरेकव्याप्तिनिरूपणं चेति ।
सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ॥ १४॥
दीपिका
पक्षलक्षणमाह- सन्दिग्धेति ॥ ननु श्रवणान्तरभाविमननस्थले अव्याप्तिः । तत्र वेदवाक्यैरात्मनो निश्चित्वेन सन्देहाभावात् । किञ्च प्रत्यक्षेऽपि वह्नौ यत्रेच्छयानुमितिस्तत्राव्याप्तिरिति चेत् न, क्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात् ।
निश्चितसाध्यवान् सपक्षः, यथा तत्रैव महानसम् ॥ १५॥
दीपिका
सपक्षलक्षणमाह-निश्चितेति ॥
निश्चितसाध्याऽभाववान् विपक्षः । यथा तत्रैव महाह्रदः ॥ १६॥
दीपिका
विपक्षलक्षणमाह- निश्चितेति ॥
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ॥ १७॥
दीपिका
एवं सद्धेतून्निरूप्य असद्धेतून्निरूपयितुं विभजते- सव्यभिचारेति ॥
अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम् ।
सव्यभिचारः अनैकान्तिकः । स त्रिविधः साधारणासाधारणानुपसंहारिभेदात् ॥ १८॥
दीपिका
सव्यभिचारं विभजते- स त्रिविध इति ॥
तत्र साध्याभाववद्वृत्तिः साधारणः अनैकान्तिकः, यथा पर्वतो वह्निमान् प्रमेयत्वात् इति । प्रमेयत्वस्य वह्नयभाववति ह्रदे विद्यमानत्वात् ॥ १९॥
दीपिका
साधारणं लक्षयति- तत्रेति ॥ उदाहरति - यथेति ॥
सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः । यथा शब्दो नित्यः शब्दत्वात् इति । शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः ॥ २०॥
दीपिका
असाधारणं लक्षयति- सर्वेति ॥
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति ॥ २१॥
दीपिका
अनुपसंहारिणो लक्षणमाह- अन्वयेति ॥
साध्याभावव्याप्तो हेतुर्विरूद्धः । यथा शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ॥ २२॥
दीपिका
विरूद्धं लक्षयति- साध्येति ॥
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववत् । शब्दोऽनित्यः कार्यत्वात् घटवत् ॥ २३॥
दीपिका
सत्प्रतिपक्षं लक्षयति- यस्येति ॥
असिद्धस्त्रिविधः- आश्रयासिद्धः, स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति ॥ २४॥
दीपिका
असिद्धं विभजते- असिद्ध इति ॥
आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दत् । अत्र गनारविन्दमाश्रयः स च नास्त्येव ॥ २५॥
दीपिका
आश्रयासिद्धमुदाहरति- गगनेति ॥
स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दं नास्ति शब्दस्य श्रावणत्वात् ॥ २६॥
दीपिका
स्वरूपासिद्धमुदाहरति- यथेति ॥
सोपाधिको हेतुः व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापकत्वं उपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ताभाव-प्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो धूमवान्वह्निमत्वादित्यत्र आर्द्रेन्धनसंयोग उपाधिः । तथाहि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता । यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वात् वह्निमत्त्वं व्याप्यत्वासिद्धम् ॥ २७॥
दीपिका
व्याप्यत्वासिद्धस्य लक्षणमाह- सोपाधिक इति ॥
उपाधेर्लक्षणमाह- साध्येति॥ उपादिश्चतुर्विधः केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्न-साध्यव्यापकश्चेति। आद्यः आर्द्रेन्धनसंयोगः । द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वम्। तृतीयो यथा- प्रागभावो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्। चतुर्थो यथा - प्रागभावो विनाशी प्रमेयत्वात् इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् ।
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निरनुष्णो द्रव्यत्वात् जलवत् । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पर्शनप्रत्यक्षेण गुह्यात इति बाधितत्वम् ॥ २८॥
दीपिका
बाधितस्य लक्षणमाह- यस्येति ॥
अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम्। इतरेषां तु परामर्शप्रतिबन्धकत्वम् । तत्रापि साधारणस्याव्यभिचाराभाव-रूपतया, विरूद्धस्य समानाधिकरण्याभावतया व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभावतया, असाधारण-अनुपसंहारिणोः व्याप्तिसंशयाधायकत्वेन व्याप्तिज्ञानप्रतिबन्धकत्वम्, आश्रयासिद्धिस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धकत्वम्। उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः । सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धावन्तर्भवतीति प्राञ्चः । निग्रहस्थानान्तरमिति नवीनाः ॥
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निरनुष्णो द्रव्यत्वात् जलवत् । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पर्शनप्रत्यक्षेण गुह्यात इति बाधितत्वम् ॥ २८॥
दीपिका
बाधितस्य लक्षणमाह- यस्येति ॥
अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम्। इतरेषां तु परामर्शप्रतिबन्धकत्वम् । तत्रापि साधारणस्याव्यभिचाराभाव-रूपतया, विरूद्धस्य समानाधिकरण्याभावतया व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभावतया, असाधारण-अनुपसंहारिणोः व्याप्तिसंशयाधायकत्वेन व्याप्तिज्ञानप्रतिबन्धकत्वम्, आश्रयासिद्धिस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धकत्वम्। उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः । सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धावन्तर्भवतीति प्राञ्चः । निग्रहस्थानान्तरमिति नवीनाः ॥
अथ षष्ठोऽध्याय :।
उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः । तथा हि कश्चिद्गवयशब्दार्थमजानन् कुतिश्चित् आरण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति । तदन्तरमसौ गवयशब्दवाच्य इत्युपमितिरूत्पद्यते ॥ १॥
दीपिका
उपमानं लक्षयति- उपमितिकरणमिति ॥
अथ सप्तमोऽध्याय :।
आप्तवाक्यं शब्दः । आप्तस्तु, यथार्थवक्ता । वाक्यं पदसमूहः । यथा गामानयेति । शक्तं पदम् । अस्मात्पदात् अयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥ १॥
दीपिका
शब्दं लक्षयति- आप्तेति ॥ आप्तं लक्षयति- आप्तस्त्विति ॥
वाक्यलक्षणमाह- वाक्यमिति ॥ पदलक्षणमाह- शक्तमिति ॥
अर्थस्मृत्यनुकूलपदपदार्थसंबन्धः शक्तिः । सा च पदार्थान्तरमिति मीमांसकाः । तन्निरासार्थमाह- अस्मादिति ॥ डित्थादीनामिव घटादीनामपि संकेत एव शक्तिः न तु पदार्थान्तरमित्यर्थः । ननु गवादिपदानां जातावेव शक्तिः, विशेषणतया जातेः प्रथममुपस्थित्वात् । व्यक्तिलाभास्तु आक्षेपादिति केचित् । तत् न, गामान्येत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेर्व्यक्तावेव संभवेन, जातिविशिष्टव्यक्तावेव शक्तिकल्पनात् । शक्तिग्रहश्च वृद्धव्यवहारेण । व्युत्पित्सुर्बालो `गामानय' इत्युत्तमवृद्धवाक्यश्रवणान्तरं मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्तजन्यत्वं निश्चित्य `अश्वमानय गां बधान' इति वाक्यान्तरे आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्य अश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते । ननु सर्वत्र कार्यपरत्वाद्वयवहारस्य कार्यपरवाक्य एव व्युत्पर्त्तिन सिद्धपर इति चेत् न। ``काश्यां त्रिभुवन्तिलको भूपतिरास्ते'' इत्यादौ सिद्धेऽपि व्यवहारात्, `विकसितपद्मे मधुकरस्तिष्ठति'' इत्यादौ प्रसिद्धपद-समभिव्यवहारात्सिद्धेऽपि मधुकरादिव्युत्पत्तिदर्शनाच्च । लक्षणापि शब्दवृत्तिः। शक्यसंबन्दो लक्षणा । गङ्गायां घोष इत्यत्र गङ्गापदवाच्यप्रवाहसंबन्धादेव तीरोपस्थितौ तीरेऽपि शक्तिर्न कल्प्यते ।सैधवादौ लवणाश्वयोः परस्परसंबन्धाभावान्नानाशक्तिकल्पनम् । लक्षणा त्रिविधा- जहल्लक्षणा, अजहल्लक्षणा, जहदजल्लक्षणा चेति । यत्र वाच्यार्थस्यान्वयाभावः तत्र जहल्लक्षणा । यथा मञ्चाः क्रोशन्तीति । यत्र वाच्यार्थस्याप्यन्वयः, तत्र अजहदिति । यथा छत्रिणो गच्चन्तीति । यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः, तत्र जहदजहदिति । यथा तत्त्वमसीति । गौण्यपि लक्षणैव लक्ष्यमाणगुणसंबन्धस्वरूपा यथा अग्निर्माणवक इति। व्यञ्चनापि शक्तिलक्षणान्तर्भूता, शब्दशक्तिमूला अर्थशक्तिमूला च । अनुमानादिना अन्यथासिद्धा । तात्पर्यानुपपत्तिर्लक्षणाबीजम् । तत्प्रीतीतीच्छयोच्चरितत्वं तात्पर्यम्। तात्पर्यज्ञानञ्च वाक्यार्थज्ञाने हेतुः नानार्थानुरोधात् । प्रकरणादिकं तात्पर्यग्राहकम्।द्वारमित्यादौ पिधेहीति शब्दाध्याहारः । ननु अर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय शब्दाध्याहारासंभवादर्थाध्याहार एव युक्त इति चेत् न ।
पदविशेषजन्यपदार्थोपस्तिथेः शाब्दज्ञाने हेतुत्वात् । अन्यथा ` घटः कर्मत्वमानयं कृतिः'' इत्यत्रापि शाब्दज्ञानप्रसङ्गात् । पङ्कजादिपदेषु योगरूढिः । अवयवशक्तिर्योगः । समुदायशक्ती रूढिः ।
नियतपद्मत्वादिज्ञानार्थं समुदायशक्तिः। अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गात् । ``इतरान्विते शक्तिः'' इति प्राभाकराः । अन्वयस्य वाक्यार्थतया भानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया इति गौतमीयाः ।
आकांक्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननु-भावकत्वम् आकांक्षा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं संनिधिः ॥ २॥
दीपिका
आकांक्षेति॥ आकाङ्क्षादिज्ञानमित्यर्थः। अन्यथा आकांक्षादिभ्रमाच्छाब्दभ्रमो न स्यात्। आकाङ्क्षां लक्षयति- पदस्येति॥ योग्यतालक्षणमाह- अर्थेति ॥ संनिधिलक्षणमाह- पदानामिति। अविलम्बेन पदार्थोपस्थितिः संनिधिः । उच्चारणं तु तदुपयोगितयोक्तम्।
आकांक्षादिरहितं वाक्यप्रमाणम् । यथा गौरश्वः पुरूषो हस्तीति न प्रमाणमाकांक्षाविरहात् । अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सांनिध्याभावात् ॥ ३॥
दीपिका
गौरश्व इति ॥ घटकर्मत्वमित्यप्यनाकांक्षोदाहरणं द्रष्टव्यम् ।
वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥ ४॥
दीपिका
वाक्यं विभजते- वाक्यमिति ॥ वैदिकस्य विशेषमाह- वैदिकमीश्वरोक्तत्वादिति ॥ ननु वेदस्यानादित्वात्कथमीश्वरोक्तत्वमिति चेत् न ।``वेदः पौरूषेयः वाक्यसमूहत्वात् भारतादिवत्'' इत्यनुमानेन पौरूषेयत्वसिद्धेः। न च स्मर्यमाणकर्तृकत्वमुपाधिः, गौतमादिभिः शिष्यपरम्परया वेदेऽपि सकर्तृकत्वस्मरणेन साधनव्यापकत्वात् । ``तस्मात्तेपानात्त्रयो वेदा अजायन्त'' इति श्रुतेश्च । ननु वर्णा नित्याः, स एवायं गकार इति प्रत्यभिज्ञाबलात् । तथा च कथं वेदस्यानित्यत्वमिति चेत् न, ``उत्पन्नो गकारो विनिष्टो गकार ' इत्यादिप्रतीत्या वर्णानामनित्यत्वात्, ``सोऽयं गकार ' इति प्रत्यभिज्ञायाः ``सीयं दीपज्वाला ' इतिवत्साजात्यावलम्बनत्वात्, वर्णानां नित्यत्वेऽप्यानुपूर्वाविशिष्टवाक्यस्यानित्यत्वाच्च । तस्मादीश्वरोक्ता वेदाः । मन्वादिस्मृतीनामाचाराणां च वेदमूलकतया प्रमाण्यम् । स्मृतिमूलवाक्यानामिदानीमनध्ययनात्तन्मूलभूता काचिच्छारवोत्सन्नेति कल्प्यते। ननु पठ्यमानवेदवाक्योत्सादनस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्यायुक्तत्वान्नित्यानुमेयो वेदो मूलमिति चेत् न, तथा सति कदापि वर्णानामानुपूर्वीज्ञानासंभवेन बोधकत्वासम्भवात् ।
वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ॥ ५॥
दीपिका
ननु एतानि पदानि स्मारितार्थसंसर्गवन्ति आकांक्षादिमत्पदकदम्बकत्वात् मद्वाक्यवत् इत्यनुमानादेव संसर्गज्ञासंभवाच्छब्दो न प्रमाणान्तरमिति चेन्न। अनुमित्यपेक्षया विलक्षणस्य शाब्दज्ञानस्य ``शाब्दात्प्रत्येमि'' इत्वनुव्यवसायंसाक्षिकस्य सर्वसंमतत्वात् । नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति ``पीनो देवदत्तो दिवा न भुङ्क्ते' इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेन्न । ``देवदत्तो रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात्'' इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात्। शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव । ``इह वटे यक्षस्तिष्ठति'' इत्यैतिह्यमपि अज्ञातम्लवक्तृकशब्द एव । चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न प्रमाणान्तरम् । तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि ॥
वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ॥ ५॥
दीपिका
ननु एतानि पदानि स्मारितार्थसंसर्गवन्ति आकांक्षादिमत्पदकदम्बकत्वात् मद्वाक्यवत् इत्यनुमानादेव संसर्गज्ञासंभवाच्छब्दो न प्रमाणान्तरमिति चेन्न। अनुमित्यपेक्षया विलक्षणस्य शाब्दज्ञानस्य ``शाब्दात्प्रत्येमि'' इत्वनुव्यवसायंसाक्षिकस्य सर्वसंमतत्वात् । नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति ``पीनो देवदत्तो दिवा न भुङ्क्ते' इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेन्न । ``देवदत्तो रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात्'' इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात्। शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव । ``इह वटे यक्षस्तिष्ठति'' इत्यैतिह्यमपि अज्ञातम्लवक्तृकशब्द एव । चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न प्रमाणान्तरम् । तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि ॥
अथ अष्टमोऽध्याय: ।
ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतोग्राह्यं परतो वेति विचार्यते । तत्र विप्रतिपत्तिः- ज्ञानप्रामाण्यं
तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा इति । अत्र विधिकोटिः स्वतस्त्वम् । निषेधकोटिः परतस्त्वम् । अनुमानादिग्राह्यत्वेन सिद्धसाधनवारणाय यावदिति । '' इदं ज्ञानमप्रमा '' इति ज्ञानेन प्रामाण्याग्रहाद्वाधवारणाय- अप्रामाण्याग्राहकेति॥
दीपिका
इदं ज्ञानमप्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्यापि अप्रामाण्याग्राहकत्वाभावात्स्वतस्त्वं न स्यादतस्तदिति। तस्मिन्ग्राह्यप्रामाण्याश्रयेऽप्रामाण्याग्राहिकेत्यर्थः। उदाहृतस्थले व्यवसायाप्रामाण्यग्राहकस्याप्यनुव्यवसाये तद्ग्राहकत्वात्स्वतस्त्वसिद्धिः। ननु स्वत एव प्रामाण्यं गृह्यते, ``घटमहं जानामि ' इत्यनुव्यवसायेन घटघटत्वयोरिव तत्संबन्धस्यापि विषयीकरणात् व्यवसायरूप प्रत्यासत्तेस्तुल्यत्वात् । पुरोवर्तिनि प्रकारसंबन्धस्यैव प्रमात्वपदार्थत्वादिति चेत् न । स्वतःप्रामाण्यग्रहे ``जलज्ञानं प्रमा न वा'' इत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात् । अनुव्यवसायेन प्रामाणस्य निश्चितत्वात् । तस्मात्स्वतोग्राह्यत्वाभावात्परतो ग्राह्यत्वमेव । तथाहि । प्रथमं जलज्ञानान्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नं जलज्ञानं प्रमा सफलप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं यथा अप्रमा इति व्यतिरेकिणा प्रमात्वं निश्चीयते । द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्व-लिङ्गेनान्वयव्यतिरेकिणापि गृह्यते । प्रमाया गुणजन्यत्वमुत्पत्तौ परतस्त्वम् । प्रमासाधारणकारणं गुणः, अप्रमासाधारणकारणं दोषः । तत्र प्रत्यक्षे विशेषणवद्विशेष्यसंनिकर्षो गुणः। अनुमितौ व्यापकवति व्याप्यज्ञानम्। उपमितौ यथार्थसादृश्यज्ञानम् । शाब्दज्ञाने यथार्थयोग्यताज्ञानम्। इत्याद्यूहनीयम् । पुरोवर्तिनि प्रकाराभावस्यानुव्यवसायेनानुपस्थितत्वादप्रमात्वं परत एव गृह्यते । पित्तादिदोषजन्यत्वमुत्पत्तौ परतस्त्वम् । ननु सर्वेषां ज्ञानानां यथार्थत्वादयथार्थज्ञानमेव नास्तीति । न च ``शुक्ताविदं रजतम्'' इति ज्ञानात्प्रवृत्तिदर्शनादन्यथाख्यातिसिद्धिरिति वाच्यम् । रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव प्रवृत्तिसंभवात्। स्वतन्त्रोपस्थितेष्टभेदाग्रहस्यैव सर्वत्र प्रवर्तकत्वेन ``नेदं रजतम्'' इत्यादौ अतिप्रसङ्गाभावादिति चेत् न । सत्यरजस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थि प्रवृत्तिजनकत्वेन विशिष्टज्ञानस्यैव कल्पनात् ।
इति अन्नंभट्टविरचित-तर्कसंग्रहः समाप्तः